________________
३४]
[वस्तुपालस्तुतिः त्रिजगति यशसस्ते तस्य विस्तारभाजः, कथमिव महिमानं ब्रूमहे वस्तुपाल !। सपदि यदनुभावस्फारितस्फीतमूर्तिविधुरगिलदरातिं राहुमाहुस्तमङ्कम् ॥३१॥ बाणे गीर्वाणगोष्ठी भजति भगवति ब्रह्मभूयं प्रपन्ने, व्यासे विद्यानिवासे कलयति च कालां कैशकी कालिदासे । माघे मोघां मघोनः सफलयति दृशं वोऽद्य वाग्देवतायाः, सोऽयं धात्रा धरित्र्यां निवसनसदनं प्रस्तुतो वस्तुपालः ॥३२॥ वर्षीयान् परिलुप्तदर्शनपथः प्राप्तः परं तानवं, रोहन्मोहतया तया हृतपरिस्पन्दोऽतिमन्दोद्यमः । श्रीमन्त्रीश्वर वस्तुपाल ! भवतो हस्तावलम्बं चिराद् ,
धर्मः प्राप्य महीं विहर्तुमधुना धत्ते पुनः पाटवम् ।।३३।। इति नागेन्द्रगच्छीयश्रीउदयप्रभसूरिकृता वस्तुपालस्तुतिः ॥
१. पद्यमिदं धर्माभ्युदयचतुर्थसर्गप्रान्ते वर्त्तते ॥ २ पद्यमिदं पुरातनप्रबन्धसङ्ग्रहगतवस्तुपालप्रबन्धे २४८ तमं सोमेश्वरदेवोक्तितयोल्लिखितं वर्त्तते ॥३. मघवति पुरातनप्रबन्धसङ्ग्रहे। ४. °शवीं का० पुरातनप्रबन्धसङ्ग्रहे ॥ ५. दृशं चाद्य पुरातनप्रबन्धसङ्ग्रहे ॥ ६. पद्यमिदं धर्माभ्युदयमहाकाव्यप्रथमसर्गप्रान्ते वर्त्तते ॥
D:\sukarti.pm5\3rd proof