________________
३०]
[वस्तुपालस्तुतिः शङ्ख शार्ङ्गधरस्य शेखरमणि शूलायुधस्य द्विपं, वज्रास्त्रस्य रदं परश्वधभृतः स्वर्लोकलीलाजये । उत्कर्षार्थितया विलुम्पतु भटो नि:सीमधामा यशो, नामाऽऽयस्य हहा ! जहार तु कुतो युग्यं जरद्ब्रह्मणः ? ॥७॥ सेवालन्ति पय:समुद्रति दिशामन्तेषु मध्येनभः, सारङ्गन्ति शशाङ्कति द्युविपिने दानन्ति दन्तीन्द्रति । पुष्पस्तोमति षट्पदन्त्यनुलताखण्डं सुधाकुण्डति, श्वभ्रान्तर्भुजगन्ति यस्य यशसि प्रत्यर्थिदुष्कीर्तयः ॥८॥ भर्तुर्वेषमयं विधाय कितवः कोऽप्येति मामुन्मनास्तेनामुं विजये ! निवारय यतो मे नीलकण्ठ: प्रियः । जल्पन्तीति सती यदीययशसा शुभ्रीकृते निर्भरं, त्रैलोक्येऽपि पिनाकिना सशपथं प्रत्यायिता पार्वती ॥९॥ कराम्भोजं भेजे सततविततं यस्य कमला, प्रियारागादागादनु दनुजभेत्ता स्वयमसिः । यशःसूनुर्नूनं तदजनि तयोरग्रजकथासदएँ कन्दर्पद्विषमपि रुषाऽधो व्यधित यः ॥१०॥ दिग्यात्रोत्सववीरवीरधवलक्षोणीधवाध्यासितं, प्राज्यं राज्यरथस्य भारमभितः स्कन्धे दधल्लीलया । धुर्य भ्रातरि दक्षिणे समगुणे श्रीवस्तुपालः कथं, न श्लाघ्यः स्वयमश्वराजतनुजः कामं स वामस्थिति: ? ॥११॥
१. पद्यमिदं सुकृतकीर्तिकल्लोलिन्यां ५२ ततम् ॥ २. °टो विश्वकधामा सुकृतकीर्तिकल्लोलिन्याम् ॥ ३. पद्यमिदं सुकृतकीर्तिकल्लोलिन्यां ३७तमम् ॥ ४. धुभुवने सुकृतकीर्तिकल्लोलिन्याम् ॥ ५. पद्यमिदं सुकृतकीर्तिकल्लोलिन्यां १३४तमम् ॥ ६. कृते सर्वतस्त्रैलो सकतकीर्तिकल्लोलिन्यां ।। ७. पद्यमिदं सकतकीर्तिकल्लोलिन्यां ३४तमम || ८. पद्ममिदं सुकृतकीर्तिकल्लोलिन्यां १२१तमम् , तथा उदयप्रभनाम्नैव निर्दिष्टं प्राचीनलेखसङ्ग्रह भाग २ लेख ४३मध्ये तृतीयम् ॥ ९. भाति भ्रा सुकृतकीर्तिकल्लोलिन्यां प्राचीनलेखसङ्ग्रह भाग २ च ।।
D:\sukarti.pm5\3rd proof