________________
द्वितीयं परिशिष्टम् ॥ नागेन्द्रगच्छमण्डनश्रीउदयप्रभसूरिविनिर्मिता
वस्तुपालस्तुतिः ॥ पीयूषादपि पेशलाः शशधरज्योत्स्नाकलापादपि, स्वच्छा नूतनचूतमञ्जरिभरादप्युल्लसत्सौरभाः । वाग्देवीमुखसामसूक्तविशदोद्गारादपि प्राञ्जला:, केषां न प्रथयन्ति चेतसि मुदं श्रीवस्तुपालोक्तयः ? ॥१॥ चेतः केतकगर्भपत्रविशदं वाचः सुधाबन्धवः, कीर्तिः कार्तिकमासमांसलशशिज्योत्स्नावदातद्युतिः । आश्चर्यं क्षितिरक्षणक्षणविधौ श्रीवस्तुपालस्य यत् , कृष्णत्वं चरितैरपास्तदुरितैर्लोकेषु भेजे भुजः ॥२॥ श्रीवस्तुपालमन्त्रीन्दोबूंमः किं गुणगौरवम् ? । यस्य निष्प्रतिमानस्य, तुलनायाः कथा वृथा ॥३॥ सूरो रणेषु चरणप्रणतेषु सोमो, वक्रोऽतिवक्रचरितेषु बुधोऽर्थबोधे । नीतौ गुरुः कृतिजने कविरक्रियासु , मन्दोऽपि च ग्रहमयो न हि वस्तुपालः ॥४|| 15 मसृणघुसृणपद्धैर्भालपट्टेषु लब्धा, विधिविहतकुवर्णश्रेणिकी याचकानाम् । विरचयति सुवर्णश्रेणिभूषाममीषां, ध्रुवमिति नववेधा वस्तुपाल सुमेधाः ॥५॥ युद्धपर्वणि कदाऽपि न दृष्टं, यस्य पृष्ठमसुहृन्निकुरम्बैः । सप्रतिज्ञमिव वीक्षितुमुत्कैस्तैश्चिरादनुचरत्वमभाजि ॥६॥
१. पद्यमिदं धर्माभ्युदयदशमसर्गप्रान्ते, प्रबन्धकोशगतवस्तुपालप्रबन्धे षट्षष्टितमं च "एवं स्तुतः केनापि कविना" इत्युल्लेखेन निर्दिष्टं वर्त्तते ॥ २. पद्यमिदं प्रबन्धकोशे वस्तुपालप्रबन्धे अष्टापञ्चाशत्तं "कश्चित्" इत्युल्लेखेनोल्लिखितं वर्तते ॥ ३. पद्यमिदं सुकृतकीर्तिकल्लोलिन्यां ९१तमम् ।।
D:\sukarti.pm5\3rd proof