________________
२८]
[सुकृतकीर्तिकल्लोलिनी तत्रैव वीरधवलक्षितिवल्लभस्य, मूर्तिं तदीयसुदृशोऽपि च जैत्रदेव्याः । स्वीयानुजस्य च निजस्य च मल्लदेवमन्त्रीश्वरस्य च चकार स भूपमन्त्री ॥१७६।। नृत्यन्त्या व्योमरङ्गे क्रमकटकझणत्कारतारं घुगङ्गारङ्गच्चक्राङ्गनादं सचिवकुलपतेर्वस्तुपालस्य कीर्तेः । खेदप्रस्वेदबिन्दुश्रियमियमयते पद्धतिस्तारकाणां, यावत् तावत् पताकाञ्चलचलनविधि चैत्यमाला विधत्ताम् ॥१७७।। इमामकृत सद्गुरोविजयसेनसूरिप्रभोः, क्रमाम्बुजरजोमजा विमलमानसोल्लासभृत् । प्रशस्तिमुदयप्रभः प्रभवदद्भुतप्रतिभप्रभावभरभासुरः सुकृतकीर्तिकल्लोलिनीम् ॥१७८।। प्रसादादादिनाथस्य, यक्षस्य च कपर्दिनः । वस्तुपालान्वयस्यास्तु , प्रशस्तिः स्वस्तिशालिनी ॥१७९॥ समाप्ता सुकृतकीर्तिकल्लोलिनीसंज्ञकेयं प्रशस्तिः ॥
कृतिरियं पण्डितपुण्डरीकश्रीमदुदयप्रभस्य ॥ सङ्ख्या ग्रन्थाग्रं ४०० ॥ शुभं भवतु ॥ लेखकपाठकयोश्च कल्याणमस्तु ॥
D:\sukarti.pm5\3rd proof