________________
10
प्रथमं परिशिष्टम् ]
[२३ स्वेदाम्भस्तटिनीघटाघटनया श्रीवस्तुपालस्फुरतेजस्तिग्मगभस्तितप्ततनुभिस्तैरेव सम्पूरितः ॥१३७।। यः प्रत्यर्थिक्षितिपतिकरिच्छेदमेदस्विशक्तिमुक्तागौरैरवनिवलयं कीर्तिपूरैरपूरि । तं वल्गन्तं युधि विधुरयामास संग्रामसिंह, निस्त्रिंशो यत्करपरिचितः कृष्णसारोऽपि चित्रम् ॥१३८।। ख्यातः सङ्ग्रामसिंहो वा, शङ्खो वा सिन्धुराजभूः । संयुध्य भज्यमानोऽस्य, युद्धे सत्याभिधोऽभवत् ॥१३९।। भग्नः शङ्ख इति स्वरैर्दिविषदामाक्षिप्त लक्ष्मीमुखं, लक्ष्मीशः किल शङ्खलक्ष्मणि करे चिक्षेप चक्षुश्चलम् । कीर्त्या लुप्तमवीक्ष्य शङ्खममलं यस्य स्वयं विस्मयं, गच्छन् कश्मलसिन्धुराजतनुभूकीर्त्या कृतार्थीकृतः ॥१४०।। असौ कीर्तीः स्वका मन्त्री, कामं त्रीणि जगन्त्यनु । वस्तुपालोऽरिसामन्तयशसामन्तकोऽक्षिपत् ॥१४१।। पद्माभिरामहस्तेन, महस्तेन प्रतन्वता । रविणेव तम:स्तोम, समस्तो महता हतः ॥१४२।। संयोजितेन मणिमण्डितशातकुम्भकुम्भत्विषा शुचिनखेन करद्वयेन । मौलिस्थितेन जिननाथसनाथमध्यप्रासादवद्दिनमुखे क्षणमीक्ष्यते यः ॥१४३॥ मालिन्यं मुमुचे जगत्त्रयशुचेरर्केन्दुमन्दाकिनीसम्पर्कादपि यत्र दुर्दमतमः सम्बन्धबन्धूकृतम् । आकाशेन तदप्यमुच्यत चिरं यत्तीर्थयात्रारजः, स्नात्रादृश्यतदात्वनिर्मलमिलत्कीर्तिद्युतिद्योतिना ॥१४४।। मा भून्मद्भुवनेऽपि दुस्तरतमःस्तोमस्तथा मा स्म भून् , नैत्रेऽपि धुसदां सदाविकसिते सम्मीलनं मर्त्यवत् । १. °भस्तिना प्रतनु मुद्रिते ॥ २. पद्यमिदं उदयप्रभीयवस्तुपालस्तुतौ अष्टादशपद्यतया वर्त्तते ॥ ३.पद्यमिदं उदयप्रभीयवस्तुपालस्तुतौ एकोनविंशपद्यतयाऽपि वर्त्तते ॥ ४. °त्रेषु युसदां सदाविकसितेष्वामील° उदयप्रभीयवस्तुपालस्तुतौ ।।
20
D:\sukarti.pm5\3rd proof