________________
प्रथमं परिशिष्टम् ]
[२१ अम्भोदभ्रमभाजि दुर्जनजने श्यामायमानद्युतौ, तन्वाने भुवनेषु दुस्तमतम:स्तोमं कुकीर्तिच्छलात् । लब्धोच्चश्रमराममार्गणमुखख्यातश्रुतिद्वारतस्तूर्णं मानसमानशे सुमनसां हंसोज्ज्वलैर्यद्गुणैः ॥१२६।। मूलस्थूलहरित्करिस्थिरपदं शुभ्रप्रभं भूमिभृदम्भस्तम्भभरं नभःसुरसरिट्याजध्वजभ्राजिनम् । उत्तुङ्गं जगतीतलेऽतुलयशःप्रासादमासाद्य यश्चिन्तातीतफलप्रदोऽवनिजने देवोऽस्तु सेवोन्मुखे ॥१२७।। इन्दुर्बिन्दुरपां सुरेश्वरसरिड्डिण्डरीरपिण्ड: पतिर्भासां विद्रुमकन्दलो विभु नभः श्रीवत्सलक्ष्मा किल ।
10 कैलास-त्रिदशेभ-शम्भु-हिमवत्प्रायास्तु मुक्ताफलस्तोमः कोमलवालुकाऽस्य च यश:क्षीरोदधौ कौमुदी ॥१२८।। गर्जन्निर्जरकुञ्जरे मुरजति प्रौढोर्मिभिर्नृत्यति, क्षीराब्धौ कलहंसिकाकलकलैर्गङ्गाजले गायति । श्यामाकामुकपारिपार्श्वकयुतो विश्वत्रयीसम्मदक्रीडानाटकसूत्रधारपदवीं यत्कीर्तिपूरौ ययौ ॥१२९।। उद्भूतप्रतिभाद्भुतस्य मतिमच्चन्द्रस्य चिद्रूपतामाहात्म्यं स्तुमहे किमस्य निखिलग्रन्थाब्धिमन्थात्मनः ? । दुःस्थानां प्रतिभूभृतां च विदधे भालस्थलस्थापिता, दृक्पातैर्वितथैव येन कविता काऽपि त्रीलोकीकवेः ॥१३०।। 20 यत्कीर्तेः स्वैरमैरावणमदसमदभ्रान्तभृङ्गालिगीत
स्फूर्जद्गर्जानिनादस्फुरदुरुमुरजोल्लासितायाः सितायाः । १. पद्यमिदमुदयप्रभनाम्ना निर्दिष्टं प्राचीनलेखसङ्ग्रह भाग २ मध्ये ४३सङ्ख्यगिरिनारसत्कशिलालेखे सप्तमपद्यतयाऽपि वर्त्तते ॥ २. °न्दलः किल विभुः श्रीवत्सलक्ष्मा नभः गिरिनारशिलालेखे ॥ ३. इत आरभ्य त्रीणि पद्यानि उदयप्रभीयवस्तुपालस्तुतौ क्रमशः १२-१३-१४ पद्यतया वर्तन्ते ।। ४. °च्चण्डस्य उदयप्रभीयवस्तुपालस्तृतौ ।। ५. भतीव विदधौ भा' मुद्रिते ।। ६. °व काचन लिपिर्येन त्रिवेदीकवेः उदयप्रभीयवस्तुपालस्तुतौ ॥ ७. °गीतैः स्फू मुद्रिते ॥ ८. °र्जामृदङ्गध्वनिभिरिव समुल्लासि° उदयप्रभीयवस्तुपालस्तुतौ ॥
15
D:\sukarti.pm5\3rd proof