________________
[१९
प्रथमं परिशिष्टम् ]
सर्वाङ्गं सुभगोऽयमित्यनिमिषस्त्रैण्येन बाल्ये हृतः, त्यक्त्वा भूवलयं सुरेन्द्रसदसि क्रीडाततिं निर्ममे ॥११३।। मल्लदेव इति देवताधिपश्रीरभूत् तदनुभूविभूतिभूः । धर्मकर्मधिषणावशो यशोराशिदासितसितद्युतिद्युतिः ॥११४।। रक्तः सद्गतिभावभाजि चरणे स्मेरास्यपङ्केरुहप्रक्रीडत्परमेष्ठिवाहनतया प्राप्तः प्रतिष्ठां पराम् । खेलन्निर्मलमानसेन समयं क्वापि श्रयन् पङ्किलं, विश्वे राजति राजहंस इव यः संशुद्धपक्षद्वयः ॥११५।। आस्ते तस्य सुधारहस्यकवितानिष्ठः कनिष्ठः कृती, बन्धुर्बन्धुरबुद्धिबोधमधुरः श्रीवस्तुपालाभिधः । ज्ञानाम्भोरुहकोटरे भ्रमरतां सारङ्गसाम्यं यशःसोमे शौरितुलां च यस्य महिमक्षीरोदधौ खं दधौ ॥११६।। हस्ताग्रन्यस्तसारस्वतरसरसनप्राप्तमाहात्म्यलक्ष्मीस् , तेजःपालस्ततोऽसौ जयति वसुभरैः पूरयन् दक्षिणाशाम् । यद्बुद्धिः कल्पितोरुद्विपगहनपरक्षोणिभृमृद्धिसम्पल्लोपामुद्राधिपश्च स्फुरति लसदिनस्फारसञ्चारहेतुः ॥११७।। तदिमं मौलिषु मौलिं, कुरुषे पुरुषेश ! सकलसचिवानाम् । क्षितिधव ! तत्तव दोष्णोविष्णोरिव भवति विश्रामः ॥११८॥ श्रुत्वेति मुदितहृदयः, पुण्यप्रागल्भ्यलभ्यसभ्यगिरम् । अनयोरनयोज्झितयोर्धरणिधवं व्यधित धरणिधवः ॥११९।।
15
20
शङ्के शङ्करकोपसम्भ्रमभरादासीदनङ्गः स्मरः,
साक्षादङ्गमयोऽयमित्यपहृतः स्वर्गाङ्गनाभिर्लघु ॥४॥ १. क्रीडां ततो नि कां० २. पद्यमिदमुदयप्रभनाम्ना प्राचीनलेखसङ्ग्रह भाग २ मध्ये ४३ तमगिरिनारसत्कशिलालेखे दृश्यते । पूर्वार्धं च तत्र पाठभेदेन वर्त्तते-रक्तः सद्गतिभावभाजि चरणे श्रीमल्लदेवोऽपरो, यद्भ्राता परमेष्ठि० ॥ ३. पद्यमिदमुदयप्रभनाम्ना प्राचीनलेखसङ्ग्रह भाग २ मध्ये ४३तमगिरिनारसत्कशिलालेखे अष्टमपद्यतया वर्त्तते ॥ ४. °धिपस्य स्फुर' गिरिनारशिलालेखे ॥
D:\sukarti.pm5\3rd proof