________________
प्रथमं परिशिष्टम् ]
मौक्तिकद्युतिजलोज्ज्वलमन्तर्मूर्ध्नि कुम्भयुगलं कलयद्भिः । योऽवरोधविधुरैर्मलिनाङ्गैर्वैरिभिः करिकुलैश्च सिषेवे ॥४१॥ अर्थव्यर्थितदुस्थदुर्विधिलिपिर्द्विट्कुम्भिकुम्भच्छिदासिंहः श्रीजयसिंहदेवनृपतिः श्रीवेश्म तस्मादभूत् । सङ्ख्यासङ्ख्यहतावनीधवनवस्वर्वासिसन्तुष्टये, चक्रे यः क्रतुचक्रवालमवनीशक्रो न शक्रश्रिये ॥४२॥ पद्मा पद्ममपास्य पङ्कजनितं यस्यारिकेशावलीरोलम्बप्रविरोलदङ्गुलिदलं भेजे कराम्भोरुहम् । शेषं वायुवशं विसृज्य सबलं दोर्नागमागादसिः, कृष्णोऽपि प्रियमेलकाभिधमभूत् तत्तीर्थमेतद्भुजः ||४३|| न्यस्यावश्यं शिरसि विरसं क्रन्दतां पादमेषां, राज्यं ग्राह्यं द्रुतमिति रणे यः प्रतिज्ञां प्रतेने । एतत्पादोपरि तु परितः स्वं परिन्यस्य मौलि, प्रीतैरन्तः प्रतिनृपतिभिः प्रत्युत प्रापि लक्ष्मीः ॥४४॥ वाजभ्राजितवाजिराजिचरणक्षुण्णक्षमामण्डलप्रोद्यत्क्षोदकदम्बडम्बरपरिच्छन्नाम्बरे सङ्गरे । यत्कौक्षेयकदण्डखण्डितरिपुक्ष्मापालमालावृतिव्यासक्ता न परं पुरन्दरपुरीनार्यः स्वकार्यक्षमाः ॥ ४५॥ शोषः सैष जवाद् यशोजलनिधौ शान्तिः प्रतापानले, शत्रूणां शिरसि च्युतेऽपि हसितं नृत्तं कबन्धेष्वपि । सत्यं सङ्गरसङ्गरस्य महिमा सोत्साहमन्त्रस्थिते
र्यस्योच्चैः करवाल एव स कथं सिद्धो न सिद्धाधिपः ? || ४६ ॥ बिडौजसि गते भयादनिबिडौजसि स्वर्गिरिं,
तदीयदिशि यः स्फुरन्निह महो - यशः क्ष्मारुहौ ।
अरोपयदहो ! पयः पतितटेऽधुनाऽप्यन्वहं, ततोऽभ्युदयतो नवौ रवि - निशाधवौ पल्लवौ ॥४७॥
१. धुरैर्मिलिताङ्गैः, मुद्रिते ॥ २. अर्थिव्य मुद्रिते ॥
D:\sukarti.pm5 \ 3rd proof
[ ९
5
10
15
20
25