________________
प्रथमं परिशिष्टम् ]
[७ युद्धोड्डामरमण्डलाग्रदलितोद्दण्डारिमुण्डोद्गतिक्रीडाखण्डितकाण्डमण्डपसुरप्रत्यक्षदोर्डम्बरः । चण्डाशुद्युतिचण्डिमा तदभवच्चामुण्डराजः क्षमाजानिर्यस्य विभात्यखण्डविभुतापाखण्डमाखण्डलः ॥२८॥ रोदःक्षीरोदनीरैरखिलदिगबलानव्यनिर्धतचीरैदिग्नागस्फारहारैरमरपतिपुरक्रोडपुष्पोपहारैः । क्षोणीचन्द्राश्मशालैरपि भुजगजच्चन्द्रिकाचक्रवालैः, फुल्लत्काशप्रकाशैस्त्रिभुवनमभितो भाति यत्कीतिहासैः ॥२९॥ मेरुश्चेत् परिकम्पते जलतेर्मुञ्चन्ति चेद् वीचयो, मर्यादां द्युतिमर्यमा त्यजति चेदुर्वी दिवं याति चेत् । तद् भज्येत परैरसाविति सतां सन्धां मुधा यो व्यधात् , सङ्ख्यक्षोभविघूणितावनिरजःक्लृप्तेऽपि तत्तादृशे ॥३०॥ खेलत्खड्गषडंहिवेल्लितभुजावल्लिर्भुवो वल्लभः, श्रीमान् वल्लभराज इत्यजनि तद् यत्तेजसा ताडितम् । शीतं स्फीतमभूत् तमश्च जगतः प्रत्यर्थिसाथै गतं, नेदं चेदिह कम्प-कालिमगुणौ कस्मादकस्मादिमौ ? ॥३१॥ श्वभ्रं सिन्धुरभुग्नया वसुधया भूमिं भटौघैदिवं, सप्तिक्षिप्तरजोभरेण पिदधे सोऽयं जगज्झम्पनः । यः श्रीमालवभूपभालफलकप्रस्वेदबिन्दुच्छलप्रत्यग्रप्रथितप्रशस्तिविकसद्दोविक्रमोपक्रमः ॥३२॥ तस्मान्नेत्रसुधाञ्जनं समजनि श्रीदुर्लभो मल्लिकाफुल्लोत्फुल्लयशा विशामधिपतिर्जीमूतपूतोन्नतिः । येनोच्चस्तरवारिवारितपरक्ष्माभृत्प्रतापाग्निना, विश्वाश्वासकरेण सूरमहसामन्तर्दधे मण्डलम् ॥३३॥ कराम्भोजं भेजे सततविततं यस्य कमला,
प्रियारागादागादनु दनुजभेत्ता स्वयमसिः । १. °द्गतिः मुद्रिते ॥ २. पद्यमिदं उदयप्रभीयवस्तुपालस्तुतौ दशमपद्यतयाऽपि दृश्यते ।।
15
20
25
D:\sukarti.pm5\3rd proof