________________
१७८]
[सुकृतकीर्तिकल्लोलिन्यादिवस्तुपालप्रशस्तिसङ्ग्रहः ॥ आमोदं सुमनःसु संविदधती पुंस्कोकिलप्रेयसीनादश्रीसुहृदां मुहुः कविगिरामुन्मुद्रयन्ती पथः । माकन्दाङ्करमञ्जरीमिव गुणश्रेणि समातन्वती सेयं हन्त ! वसन्तपाल ! भवतः कीर्तिर्वसन्तायते ॥१५॥ आजन्माऽपि शये कृताय सुकृतस्तोमाय यत्नान्मया यद्यासाद्यत कोऽपि दूषणकणः श्रीवस्तुपाल ! त्वयि । यत्कल्पद्रुमपल्लवद्युतिमवष्टभ्यैव कल्पद्रमं पाणिधिक् कुरुते तवैष मनुते कोऽमुं न दोषाश्रितम् ॥१६॥
॥ एते कविसार्वभौमश्रीहरिहरस्य ॥ छ ।
प्रशस्तिलेखाङ्क-५
मुखमुद्रया सहान्ये दधति करे सचिवमन्त्रिणो मुद्राम् । श्रीवस्तुपाल ! भवतो वदान्य ! तद् द्वितयमुन्मुद्रम् ॥१॥ कीर्तिः कन्दलितेन्दुकान्तिविभवा, धत्ते प्रतापः पुनः प्रौढिं कामपि तिग्मरश्मिमहसां, बुद्धिर्बुधाराधनी । प्रत्युजीवयतीह दानमसमं कर्णादिभूमीभुजः, तत् किञ्चिन्न तवास्ति यन्न जगतः श्रीवस्तुपाल ! प्रियम् ।।२।। गीतं न स्वदते, धिनोति न विधुः, प्रीणाति वीणा न सा, काम्यः सोऽपि न कोकिलाकलवर:(? रवः), श्रव्यो न हंसस्वनः । वाग्देवीपदपद्मनूपुर ! यदि श्रीमल्लदेवानुज ! श्रूयन्ते सचिवावतंस ! भवता संकीर्तिताः सूक्तयः ॥३॥ तिष्ठन्तोऽपि सुदूरतस्त्रिभुवनव्याप्तिप्रगल्भात्मना तेन त्वद्यशसा वयं सुमनसो निर्वासिताः सद्मनः । तैरेतैरिह तद्विरोधिरभसाद् बद्धा स्थितिस्ते हृदि क्षन्तव्यं कविबान्धवेन तदिदं श्रीवस्तुपाल ! त्वया ॥४॥ ॥ एते महामात्यश्रीवस्तुपालपरममित्रमन्त्रिश्रीयशोवीरस्य ॥ छ ।
D:\sukar-p.pm5\2nd proof