________________
परिशिष्टम् [१] वस्तुपालशिलालेख-प्रशस्तिसङ्ग्रहः ॥]
[१७५ अमात्यतरणे ! शृणु क्षणमिदं मदीयं वचः, स्वचक्र-परचक्रयोरपि पुरः प्रमोदात् सदा । तवोपकृतिमर्थिनः प्रकृतिमप्रमत्तेन्द्रियाः, कृतिं च कृतिपुङ्गवा युवतयः स्तुवन्त्याकृतिम् ॥३६।। सा कालिदासस्य कवित्वलक्ष्मीः, स्फुटं प्रविष्टा त्वयि वस्तुपाल !। आसादिताऽस्माभिरवेक्षमाणैः, साक्षादियं तत्पदपद्धतिर्यत् ॥३७।। धरणे ! धरः स्थितोऽसौ नागः शेषः करोति धृतिमतुलाम् । पुन्नागः पुनरुपरि स्थितोऽश्वराजात्मजः सततम् ॥३८॥ श्रीवस्तुपालः स चिरायुस्तु यन्मन्त्रसंत्रस्तसमस्तशत्रोः । चौलुक्यभर्तुस्तदसेश्च तिष्ठत्यलब्धसिद्धिः परमारणेच्छा ॥३९।। तिस्रः स्पृशन्नपि तिथीरिव जगतीरेष ते यशोवारः । श्रीवस्तुपाल ! कलयति नावमतां मे तदाश्चर्यम् ॥४०॥ कल्पायुर्भवतु द्विषोऽभिभवतु श्रीवस्तुपालः क्षितौ दुर्दैवानलदग्धसाधुजनतानिर्वापणैकापणः । अम्भोधेः सविधे विधेरपि मनस्यातन्वता विस्मयं येन क्रोधकरालभालभ्रकुटिर्भग्ना भटानां घटा ॥४१।। मन्ये धुरि स्थितमिमं सचिवं शुचीनां मध्यस्थमेव मुनयः पुनरामनन्ति । मातः ! सरस्वति ! विवादपदं तदेतन्निीयतां सह महद्भिरुपागतं मे ॥४२॥ आलोकतेऽस्य न खलोऽपि किमप्यवद्यं विद्याभिभूतपुरुहूतपुरोहितस्य । यस्यायमाहतभुजार्गलया व्यधायि श्रीवीरवेश्मनि कलिः स्खलितप्रवेशः ॥४३।। विरचयति वस्तुपालश्शुलुक्यसचिवेषु कविषु च प्रवरः । न कदाचिदर्थहरणं श्रीकरणे काव्यकरणे वा ॥४४॥ प्रचारं चौराणां प्रचुरतुरगश्रीः प्रशमयन्नमेयं पाथेयं पथि पथिकसार्थाय वितरन् । दिगन्तादाहूतैविहितबहुमानैः प्रियजनैः समं मन्त्रीयात्रामयमकृतशत्रुञ्जयगिरौ ॥४५॥ यो मान्ये मानमुच्चैः सुहृदि सुहृदयः स्नेहमल्पे प्रसादं भीते रक्षां दरिद्रे द्रविणवितरणं यानहीने च यानम् । मार्गे दुर्गेऽपि कुर्वन्नपर इव सुरक्ष्मारुहः क्षमापमन्त्री यात्रां कृत्वोज्जयन्ते विजितकलिमलः प्राप सङ्घप्रभुत्वम् ॥४६।। अनुजन्मना समेतस्तेजःपालेन वस्तुपालोऽयम् । मदयति कस्य न हृदयं मधुमासो माधवेनेव ॥४७॥
D:\sukar-p.pm5\2nd proof