________________
१७४]
[सुकृतकीर्तिकल्लोलिन्यादिवस्तुपालप्रशस्तिसङ्ग्रहः ॥ कार्पण्यातिशयेन कश्चन धनं यः स्वं निधत्ते स तद् भोक्तुं नात्र न वाऽप्यमुत्र लभते हस्तादधस्ताद् गतम् । यः पात्रप्रतिपादनेन सफलीभूतां विभूतिं पुनर्भुङ्क्तेऽस्मिन् विदितागमोऽनुगमयत्यन्यत्र जन्मन्यपि ॥२६।। मया मोहं नीताः कति न मतिमन्तोऽपि किमहं निकृष्टैर्नाश्लिष्टा विपणिष पणस्त्रीगणनया ? । विषादं कृत्वा श्रीरिति किल गता तीर्थमिव तं ततः सन्मार्गेण प्रतिदिवसमेनां नयति यः ॥२७।। गुणैः परेषां गणशो गृहीतैर्गुणीति युक्ता किल कीर्तिरस्य । अप्यर्थिसार्थप्रतिपादितश्री:, श्रीमानिति ख्यातिरिदं तु चित्रम् ॥२८॥ आलोकनादपि विनाशितसज्जनात्तिः, श्रीवस्तुपालसचिवः स चिरायुरस्तु । यत्कीर्तयस्त्रिदिवसिन्धुपयःसपक्षाः प्रक्षालयन्ति कलिना मलिनां धरित्रीम् ॥२९॥ केचित् कवीन्द्रमपरे पुरुषप्रधानं, जानन्ति संयति सुदुःसहमन्युमन्ये । मन्येऽहमेनमिह कर्णमिवावतीर्णं, श्रीवस्तुपालवपुषा विदुषां तपोभिः ॥३०॥ नेत्रोत्सवं सुवति तापमपाकरोति, दत्ते सदा सुमनसाममृतैः प्रमोदम् । सल्लक्षणप्रणयिनीं च बिभत्ति मूर्ति, किं रोहिणीपतिरहो ! ननु वस्तुपाल: ? ॥३१॥ लोकानां वदनानि दीनवदनः कस्मात् समालोकसे, भ्रातः ! सम्प्रति कोऽपि कुत्रचिदपि त्राता न जातापदाम् अस्त्येकः परमत्र मन्त्रितिलकः श्रीवस्तुपालः सतां, दैवादापतितं छिनत्ति सुकृती यः कण्ठपाशं हठात् ॥३२॥ मत्तारिद्विपसिंहसिंहनचमूचक्रेण विक्रामतो यस्यासिस्फुरितानि तानि ददृशुः के वा न रेवातटे? । तस्यापि प्रसभं बभञ्ज भुजयोः संरम्भमम्भोनिधिप्रान्ते सैष सरोषदृष्टिघटनामात्रेण मन्त्रीश्वरः ॥३३।। विक्रामद्वैरिचक्रप्रहितशितशरासारदुर्वारवीरव्यापारे यस्य नाऽऽसीदतिपरुषरुषः सङ्गरे भङ्गरेखा । तेन श्रीवस्तुपालाद् विलसदसिलता भीमवृत्तादमात्यादत्याकारावतार: प्रथममधिगतः सिन्धुराजात्मजेन ॥३४॥ येनारिनागदमनीं दधतासिलताममोघमन्त्रेण । उत्तारितरोषविषप्रसरः समरे कृतः शङ्कः ॥३५॥
D:\sukar-p.pm5\2nd proof