________________
[१७३
परिशिष्टम् [१] वस्तुपालशिलालेख-प्रशस्तिसङ्ग्रहः ॥]
प्रासादास्तव वस्तुपाल ! त इमे तन्वन्ति चेतः सतां सानन्दं शशिशेखरादिशिखरग्रामाभिरामश्रियः । येषां काञ्चनकुम्भसम्भवमहःसन्दोहसन्तर्पिताः सन्त्युच्चैस्तुहिनोच्चयेऽप्युपचयं पुष्णन्ति पूष्णः कराः ॥१५।। परिपीडिता समन्ताज्जडसमयेनामुना गिरा देवी। श्रीवस्तुपालसचिवं निबिडगुणं पटमिवाश्रयति ।१६।। उद्धृत्य बाहुमहमेष मुहुर्वदामि ब्रूतां स मद्वचसि विप्रतिपद्यते यः । यद्यस्ति कश्चिदपरः परमार्थवेदी श्रीवस्तुपालसचिवेन समः क्षमायाम् ॥१७।। श्रीवस्तुपाल ! चिरकालमयं जयन्तसिंहः सुतस्तव भवत्वधिकाधिकश्रीः । यस्तावकीनधनवृष्टिहृतावशिष्टं शिष्टेषु दौस्थ्यदवपावकमुच्छिनत्ति ॥१८॥ यथा यथाऽयं तव वस्तुपाल ! गोत्रं गुणैः सूनुरलङ्करोति । तथा तथा मत्सरिणां नराणामवैमि चित्तेष्वनलं करोति ॥१९॥ पुरा पादेन दैत्यारे वनोपरिवर्तिना । अधुना वस्तुपालस्य हस्तेनाध:कृतो बलिः ॥२०॥ मध्यस्थं कथयन्ति केचिदिह ये त्वां साधुवृत्त्या बुधाः श्रीमन्त्रीश्वर ! वस्तुपाल ! न मृषा तेषामपि व्याहृतम् । कर्णोऽभूदुपरि क्षितेर्बलिरधस्त्वं चात्र मध्ये तयोः स्थातेत्यर्थसमन्वये ननु वयं मध्यस्थमाचक्ष्महे ॥२१॥ कम्पाकुलमवलोक्य प्रतिवीराणां रणाङ्गणे हृदयम् । अनुकम्पाकुलमयमपि सचिवश्चक्रे निजं चेतः ॥२२॥ नरेन्द्रश्रीमुद्रा सपदि मदिरेवापहरते हताशा चैतन्यं परिचरितमालिन्यमनसाम् । इहाऽमात्ये भ्रान्त्याऽप्यकलितकलङ्के पुनरसौ विवेकाविष्कारं रचयति परं गीरिव गुरोः ॥२३॥ लोकेऽस्मिन्नयमेव मन्त्रितिलक: श्रेयानिति व्याहृतं सत्यं मानय माऽपमानय सखे ! मान्यं तदन्यैर्जनैः । एतस्मिन् सुकृतामयेऽपि समये सौम्येन यः कर्मणा धर्म संचिनुते करोति च महाजैनो निजैनोव्ययम् ॥२४॥ के वा स्खलन्ति न नरेन्द्रनियोगमुद्रां हस्तस्थितां मधुघटीमिव धारयन्तः ? । तां दीपिकामिव करे पुनरेष कृत्वा सन्मार्गमञ्चति निरस्ततमःसमूहः ॥२५॥
D:\sukar-p.pm5\2nd proof