________________
१७०]
[सुकृतकीर्तिकल्लोलिन्यादिवस्तुपालप्रशस्तिसङ्ग्रहः ॥ कल्पान्तोद्धृतदुग्धनीरधिपयःसन्तापशङ्काकुल: शङ्के वत्सर-मास-वासरगणं संख्याति सर्गस्थितेः ॥३१॥ चित्रं चित्रं समुद्रात् किमपि निरगमद् वस्तुपालस्य पाणेर्यो दानाम्बुप्रवाहः स खलु समभवत् कीत्तिसिद्धस्रवन्ती । साऽपि स्वच्छन्दमारोहति गगनतलं खेलति क्ष्माधराणां शृङ्गोत्सङ्गेषु रङ्गत्यमरभुवि मुहर्गाहते खेचरोर्वीम् ॥३२॥ पुण्यारामः सकलसुमनःसंस्तुतो वस्तुपालस्तत्र स्मेरा गुणगणमयी केतकीगुल्मपङ्क्तिः । तस्यामासीत् किमपि तदिदं सौरभं कीर्तिदम्भाद् येन प्रौढप्रसरसुहृदा वासिता दिग्विभागाः ॥३३।। सेचं सेचं स खलु विपुलैर्वासनावारिपूरैः स्फीतां स्फाति वितरणतरुर्वस्तुपालेन नीतः । तच्छायायां भुवनमखिलं हन्त ! विश्रान्तमेतद् दोलाकेलि श्रयति परितः कीर्तिकन्या च तस्मिन् ॥३४॥ श्रीवस्तुपालयशसा विशदेन दूरादन्योन्यदर्शनदरिद्रदृशि त्रिलोक्याम् । नाभौ स्वयम्भुवि वसत्यपि निर्विशङ्कं शङ्के स चुम्बति हरिः कमलामुखेन्दुम् ॥३५।। स एष निःशेषविपक्षकालः श्रीवस्तुपालः पदमद्भुतानाम् । यः शङ्करोऽपि प्रणयिव्रजस्य विभाति लक्ष्मीपरिरम्भरम्यः ॥३६।। चीत्कारैः शकटव्रजस्य विकटैरस्वीयहेषारवैरारावै रवणोत्करस्य बहलैः बन्दीन्द्रकोलाहलैः । नारीणामथ चच्चरीभिरशुभप्रेतस्य वित्रस्ते मन्त्रोच्चारमिवाऽऽचचार चतुरो यस्तीर्थयात्रामहम् ॥३७||
॥ एते मलधारिनरेन्द्र[प्रभ]सूरीणाम् ॥ श्रीरैवताचलसथश्रीशत्रुञ्जयावतारप्रवेशे वामभित्तिगा प्रशस्तिरेषा ॥ छ ।
प्रशस्तिलेखाङ्क-२ श्रयः पुष्यतु शाश्वतं यदुकुलक्षीरार्णवेन्दुर्जिनो यत्पादाब्जपवित्रमौलिरसमश्रीरुज्जयन्तोऽप्यम् । धत्ते मूनि निजप्रभुप्रसृमरोद्दामप्रभामण्डलैविश्वक्षोणिभृदाधिपत्यपदवीं नीलातपत्रोज्ज्वलाम् ॥१॥
D:\sukar-p.pm5\2nd proof