________________
परिशिष्टम् [ १ ] वस्तुपालशिलालेख - प्रशस्तिसङ्ग्रहः ॥ ]
श्रीविक्रमसंवत् १२८८ वर्षे पौष शुदि १५ शुक्रे प्रशस्तिनिष्पन्ना ॥ एतामलिखत् वाजडतनुजन्मा ध्रुवकजयतसिंहाख्यः । उदकिरदपि बकुलस्वामिसुतः पुरुषोत्तमो विमलां ॥
शिलालेखाङ्क-२
[१] ॥ ६० ॥ ॐ नमः श्रीसर्व्वज्ञाय ||
देवः स वः शतमखप्रमुखामरौघक्लृप्तपथः प्रथमतीर्थपतिः पुनातु । धर्म्मक्रमोऽपि किल केवल एव लोके नीतिक्रमोऽपि यदुपक्रममेष भाति ॥ १ ॥
श्रीविक्रमसंवत् १२८८ [२] वर्षे पौष सुदि १५ शुक्रे श्रीमदणहिलपुरवास्तव्यप्राग्वाटवंशालंकरण ठ० श्रीचण्डपात्मज ठ० श्रीचण्डप्रसादांगज ठ० श्रीसोमतनुज ठ० श्रीआशाराजनन्दनेन ठ० श्रीकुमारदेवीकुक्षिसंभूतेन ठ० श्रीलूणि [ ३ ] ग महं० श्रीमालदेवयोरनुजेन महं० श्रीतेजःपालाग्रजन्मना चौलुक्यकुलनभस्तलप्रकाशनैकमार्त्तण्डमहाराजाधिराजश्रीभुवनप्रसाददेवसुतमहाराजश्रीवीरधवलदेवप्रीतिप्रतिपन्नराज्यसर्वैश्व[४]र्येण सं[०] ७७ वर्षे श्रीशत्रुंजयोज्जयंतप्रभृतिमहातीर्थयात्रोत्सवप्रभावाविर्भूतश्रीमद्देवाधिदेवप्रसादासादित.. ...त्येन श्रीशारदाप्रतिपन्नापत्येन महामात्यश्रीवस्तुपालेन अनुज महं० श्रीतेजःपा [५] लेन च इह स्वकारितसौवर्णदंडकलशविराजितसच्चारुत्तोरणालंकृत श्रीमदुज्जयंतस्तंभनकतीर्थद्वयावतार.......हतम.... नन्दीश्वरसत्यपुरशकुनिकाविहारकपर्दियक्षायतनोद्धार अनुपमाभिधा [ ६ ] नमहासरोवरप्रभृतिप्रधानधर्मस्थानपरंपराविराजितस्य श्रीशत्रुंजयमहातीर्थमौलिमुकुटायमानस्य श्री [ ? युगादि] तीर्थंकरश्रीऋषभदेवभवनस्याग्र.. .. प्रतोली कारिता ॥ छ ॥ छ
[७] भूयाद्भूवलयस्य वीरधवलः स्वामी समुद्रावधेः श्रीमुद्राधिकृतः कृतः सुकृतिना येनाश्वराजात्मजः ।
यस्मा..
ध[८]न्यात्मा खलु वस्तुपालसचिवः सर्वोऽपि सम्पद्यते यत्संपर्कवशेनमेदुरमदोद्रेको विवेकी जनः ।
.. कौतुकमहो ( ? ).
.. वितनुते नैवान्तरं किंच [९]न ॥२॥ त्यागाराधिनि राधेये ह्येककर्णैव भूरभूत् । उदिते वस्तुपाले तु द्विकर्णा वर्ण्यतेऽधुना ॥३॥ श्रीवस्तुपालते[ जःपा ]लौ जगतीजनस्य चक्षुष्यौ । पुरुषोत्तमाक्षिगतयोः स्यातां सदृशौ न रवि- शशिनोः ॥४॥
तज्जन्मा..
...विश्वोपकारव्रती ॥१॥
D:\sukar-p.pm5 \ 2nd proof
[ १६१