________________
[वस्तुपालविरचितश्रीनेमिजिनस्तवः
(२) रैवतकाद्रिमण्डनश्रीनेमिजिनस्तवः ॥ जयत्यसमसंयमः शमितमन्मथप्रभावो, भवोदधिमहातरिरितदावपाथोधरः । तपस्तपनपूर्वदिक्कलुषकर्मवल्लीगजः, समुद्रविजयाङ्गजस्त्रिभुवनैकचूडामणिः ॥१॥ अहङ्कृतिलतायुधं प्रमदमान्द्यसिद्धौषधं, मदेन्धनधनञ्जयः स्मरकरीन्द्रकण्ठीरवः । स्पृहारजनिवासरः प्रथितपङ्कतीव्रातपः, समुद्रविजयात्मजः स्फुरतु मानसे मेऽनिशम् ॥२॥ मेरुर्मे रुचिमातनोति न मुधा मानी हिमानीगिरिः, कैलासस्तु न वस्तुतः स्तुतिपदं वन्ध्यः स विन्ध्याचलः । श्लाघ्यो रैवत एव केवलमयं शृङ्गाणि शृङ्गारयत्यच्चैर्यस्य जगत्त्रयस्ततिपदः श्रीनेमिकल्पद्रमः ॥३॥ संसारार्तितपोपतापशमनश्रद्धालवः ! किं मुधा, राग-द्वेषदवोल्मुकैर्बत ! बुधाः ! सेव्यान्तरैः सेवितैः ? । आजन्मोपशमामृतैकसरसः श्रीरिष्टनेमिप्रभोनिर्वृत्यौपायिकं पदाम्बुजयुगं धत्त प्रसक्तं हृदि ॥४॥ यस्यानीकवधूभिरेव विजिताः स्व-भू-र्भुवःस्वामिनो, मौलौ शासनमुद्वहन्ति भुवने देवोऽयमेकः स्मरः । सोऽप्याजन्मजितः करोति न करे जैत्रं धनुर्यं प्रति, प्रीतिं रैवतदैवतं वितनुतां देवाधिदेवः स वः ॥५॥ येषां मूर्तिरसौ तवेश ! परमानन्दैकनिस्यन्दिनी, ध्यानावेशवशंवदा स्मृतिपथे शश्वत् पुनीतेतमाम् । तेषां सम्मदवारिपूरितदृशां शैवेय ! नैवेयमप्याधत्ते मनसश्चमत्कृतिसुखं सा सिद्धिसीमन्तिनी ॥६॥
15
20
25
D:\sukarti.pm5\3rd proof