________________
त्रयोदशं परिशिष्टम्]
[१३७ साम्राज्यं चतुरणवीनिवसनक्षोणीशमौलिस्खलत्पादाब्जं न सुरा-ऽसुरेन्द्रमुकुटस्पृष्टांहिपीठं च न । सिद्धिं शाश्वतसौख्यसङ्गसुभगां नाभ्यर्थये किन्तु मे, श्रीशैवेय ! तवेयमस्तु चरणाम्भोजेषु भक्तिभृशम् ॥७॥ नेपथ्यैरतिथीभवत्पृथुतरापथ्यैरतथ्यप्रथैरुद्यद्वैद्युतडम्बरैः किमपरैरेकैव भूयान्मम । आश्लेषस्पृहयालुमुक्तियुवतिप्रीतिप्रियम्भावुका, श्रीमन्नेमिजिनेशितुः स्तुतिरियं ग्रैवेयकं शाश्वतम् ॥८॥ इत्थं श्रीवस्तुपालः सुकृतसुरतरोरालवालस्त्रिलोकीस्वामिन् नेमे ! त्वदीयक्रमकमलरजःपुञ्जपुण्यैकभालः । सङ्घाधीशश्चलुक्यक्षितिपतिसचिवः शारदाधर्मसूनुविज्ञप्ति ते विधत्ते प्रथम मम सदा दर्शनेन प्रसादम् ॥९॥ श्रीसङ्घभर्तृसचिवेश्वरवस्तुपालक्लृप्तेन नेमिनमनेन किलाष्टकेन । यः स्तौति तस्य कमलामविलम्बमम्बादेवी तनोत्यतनु सन्तनुते च तेजः ॥१०॥
इति गूर्जरेश्वरमहामात्यश्रीवस्तुपालकृतो रैवतकाद्रिमण्डनश्रीनेमिजिनस्तवः ॥
45
D:\sukarti.pm5\3rd proof