________________
5
द्वादशं परिशिष्टम् ]
[१३३ भास्वत्प्रभावमधुराय निरन्तरायधर्मोत्सवव्यतिकराय निरन्तराय । यो गूर्जरावनिशिरोमणिभीमभूपमन्त्रीन्द्रतापरवशत्वमपि प्रपेदे ॥३५।। य: कामवृत्तिरनुजेन निजेन तेजःपालेन पूर्णनृपकार्यपरम्परेण । सद्धर्मकर्मरस एव मनो मनोज्ञविद्वद्विनोदपयसि स्नपयाम्बभूव ॥३६।। यः स्वीयमातृ-पितृ-बन्धु-कलत्र-पुत्र-मित्रादिपुण्यजनये जनयाञ्चकार । सद्दर्शनव्रजविकासकृते च धर्मस्थानावलीवलयिनीमवनीमशेषाम् ॥३७॥ की, सौरभसारसान्द्रसुमन:सन्दोहसन्दोहकृत्कान्त्या पाति वसन्तमन्वहमसावित्यपितार्थक्रमम् । ख्याति प्राप वसन्तपाल इति यो नामाद्वितीयं मुदा, विद्वद्भिः परिकल्पितं हरिहर-श्रीसोमशर्मादिभिः ॥३८॥ श्रीशत्रुञ्जयशैलशेखरमणेः श्रीनाभिसूनुप्रभोः, पीत्वा वक्त्रसुधांशुदीधितिसुधामाकण्टमुत्कण्ठया । व्यातन्वन् कवितां नितान्तमुदितः सद्यस्तदुद्गारवत् , तस्यैवाऽऽदिजिनेश्वरस्य जनयामास स्तवं यो नवम् ॥३९।। नरनारायणानन्दो, नाम कन्दो मुदामिदम् । तेने तेन महाकाव्यं, वाग्देवीधर्मसूनुना ॥४०॥ उद्भास्वद्विश्वविद्यालयमयमनसः ! कोविदेन्द्राः ! वितन्द्राः !, मन्त्री बद्धाञ्जलिर्वो विनयनतशिरा याचते वस्तुपालः । अल्पप्रज्ञाप्रबोधादपि सपदि मया कल्पितेऽस्मिन् प्रबन्धे, भूयो भूयोऽपि यूयं जनयत नयनक्षेपतो दोषमोषम् ॥४१॥ इति श्रीगूर्जरेश्वरमहामात्यश्रीवसन्तपालविरचिते नरनारायणान्दनाम्नि
महाकाव्ये प्रशस्तिप्रपञ्चो नाम षोडशः सर्गः ॥
20
D:\sukarti.pm5\3rd proof