________________
द्वादशं परिशिष्टम्]
[१३१ श्रीरङ्गभूभृशमभूदनयोर्नयाढ्यश्रीरङ्गभूर्जगति शूर इति प्रतीतः । अस्वप्नतां सुरगुरुः सह शिष्यवगैर्धत्ते स्म यन्मतिजितश्चिरचिन्तयेव ॥९॥ चूडामणीकृतजिनाध्रिनखप्रपञ्चः, कर्णस्फुरद्गुरुसुवर्णविभूषणश्रीः । सद्वर्त्मनि प्रचलदुर्मदमोहचौरः, दुःसञ्चरेऽपि विललास य एव शूरः ॥१०॥ हृत्वाऽपि कान्तिलवमेव यदीयकीर्तेर्दिव्यं सृजन्निव जगत्यपवादभीतः । इन्दुः सुधावपुरपि प्रभुरौषधीनामप्येष सर्पनिभलक्ष्मधृतौ न शुद्धः ॥११॥ सोमाभिधस्तदनुजः सुजनाननाब्जसूर्योऽभवद् विबुधसिन्धुविशुद्धबुद्धिः । यन्मानसेऽद्भुतरसे विललास वाधिक्षिप्तौर्वतापविधुरेव सरस्वतीयम् ॥१२॥ क्रीडाकथासु सदसि धुसदां सदैव, मौलिं विकम्प्य किल सोऽपि गुरुः सुराणाम् । यद्बुद्धिवैभवभरस्य विचारितस्य, नीराजनान्यकृत चञ्चलचूलरत्नैः ॥१३॥ 10 देवः परं जिनवरो हरिभद्रसूरिः, सत्यं गुरुः परिवृढः खलु सिद्धराजः । धीमाननेन नियतं नियमत्रयेण, कीर्ति व्यधात् त्रिपथगामिव यः पवित्राम् ॥१४॥ पुस्फूर्ज गूर्जरधराधवसिद्धराजराजत्सभाजनसभाजनभाजनस्य ।। दुर्मन्त्रिमन्त्रितदवानलविह्वलायां, श्रीखण्डमण्डननिभा भुवि यस्य कीर्तिः ॥१५।। कुर्वन् परायंगणिते सति यद्गुणानामेकैकबिन्दुरचनामुडुकैतवेन ।
15 चन्द्रच्छलेन कति नो खटिनीषुभित्तौ, धाता व्यधादथ विधास्यति कीर्तिशेषाः? ॥१६॥ नो चेद् यशांसि बलि-कर्ण-दधीचिमुख्या, दानोत्सवैरविरलानि भुवि व्यधास्यन् । भक्तैरदास्यत विलासमरालबाललक्ष्मीर्यदीयघनदानयशोनदीषु ॥१७॥ श्रीवाससद्यकरपद्मगदीपकल्पां, व्यापारिणः कति न बिभ्रति हेममुद्राम् ? । प्रज्वालयन्ति जगदप्यनयैव केऽपि, येन व्यमोचि तु समस्तमिदं तमस्तः ॥१८।। 20 कान्ता जगत्रितयविस्मयनीयनीतेः, सीतेति रामचरितस्य बभूव तस्य । यल्लोचनं स्थिरतरं दयिताननेन्दौ, दूरेण काञ्चनमृगश्रियमन्वगच्छत् ॥१९॥ हर्षादसौ हसतु शीतकरोऽपि भासा, भृङ्गीरुतैरपि च हुङ्कुरुतां सरोजम् । दूराबलम्बितशिरोम्बरडम्बरेण, यस्या मुखं जगति न प्रकटं यदासीत् ॥२०॥ तत्सम्भवस्त्रिभुवनाभरणं बभारं, शुभ्रं यशोभरमनश्वरमश्वराजः । मुक्त्वा कलङ्ककलितं ललितं हिमांशुं , हर्षादलाभि सकलाभिरयं कलाभिः ॥२१॥
25
D:\sukarti.pm5\3rd proof