________________
5
द्वादशं परिशिष्टम् ॥ गूर्जरेश्वरमहामात्यश्रीवस्तुपालकविविरचितस्य नरनारायणानन्दमहाकाव्यस्य प्रशस्त्यात्मकः
___ षोडशः सर्गः ॥ शोभाभिभूतपुरुहूतपुरं पुरन्ध्रीलावण्यलोभितजगन्नगरं गरीयः । धाम श्रियोऽणहिलपाटकनाम कामलीलामयं जयति गूर्जरभूविभूषा ॥१॥ वाग्देवतां यदि जना जननीमिवैनामानन्दिन प्रतिदिनं हृदि नन्दयन्ति । यस्मिन्निमान् मदनतुल्यरुचस्तथापि, निर्मत्सरा त्यजति नो सुतवत्सला श्रीः ॥२॥
प्राग्वाटगोत्रतिलकः किल कश्चिदत्र, श्रीचण्डपः स्फुटमखण्डपदप्रतिष्ठः । 10 विस्फूजितान्यधित गूर्जरराजराज्यराजीवजीवनरविः सचिवावतंसः ॥३॥
कृष्णीकृतारिवदना सुमनोमनांसि, रागास्पदं विदधती यदलक्ष्यरूपा । आनन्दमर्दितविचारमदैर्यदीयकीर्तिर्मुधा जितसुधा बुबुधे बुधेन्द्रैः ॥४॥ चण्डप्रसाद इति सादितविश्वदौस्थ्यस्तन्नन्दनः स्वकुलनन्दनकल्पशाखी ।
मुक्तामयप्रसवसञ्चयचारुचञ्चत्कीर्तिप्रभासुरभिताम्बरभूर्बभूव ॥५॥ 15 शास्त्रार्थवारिभरहारिहृदालवालसंरोपिता मतिलता वितता नितान्तम् ।
यस्य प्रकाशितरविग्रहतापवद्भिश्छायार्थिभिनुपकुलैः फलदा सिषेवे ॥६॥ पुण्यस्य पापपटलीजयिनो जयश्रीरासीत् तदीयदयिता नयभूर्जयश्रीः । यस्या मनो दयितभक्तिसुरस्रवन्तीस्नानोज्ज्वलां जनयति स्म जिनेन्द्रसेवाम् ।।७।।
नेवौष्ठसम्पुटविपाटनया कदाचिदेषा स्मितं जितसुधाविभवं व्यधत्त । 20 श्वेतद्युतिः कलुषतां तदयं हृदन्तः, केनापरेण परिभूततनुस्तनोति ? ॥८॥