________________
एकादशं परिशिष्टम्]
[१२७ कवीन्द्रपदवीस्पृहामहह ! तेऽपि तन्वन्ति यद्वचः क्रकचकर्कशं प्रथयति व्यथां कर्णयोः । कविः स विरल: पुनर्भुवि भवादृशो दृश्यते, सुधाभिरभिषेचनं रचयतीव यः सूक्तिभिः ॥५०॥ मन्दश्छन्दसि कोऽपि कोऽपि विकल: सालङ्कृतिव्याकृतावर्थे कोऽपि वृथाश्रमो रसनिधावन्धः स कोऽप्यध्वनि । वक्त्रान्तर्विहरतिरञ्चितनयामञ्जीरमञ्जुरस्वरस्पर्धाबन्धुभिरेक एव कवते काव्यैः कुमारात्मजः ॥५१॥ वैदुष्यं विगताश्रयं श्रितवति श्रीहेमचन्द्रे दिवं, श्रीप्रह्लादनमन्तरेण विरतं विश्वोपकारव्रतम् । दृष्ट्वा तद् द्वयमत्र मन्त्रिमुकुटे श्रीवस्तुपाले कविस्तत्कीर्तिस्तुतिकैतवादिति मुदामुद्गारमारब्धवान् ॥५२॥ प्राग्वाटान्वयवारिधौ विधुरिव श्रीचण्डपः प्रागभूत् , सम्भूतोऽद्भुतसत्य-शौचसदनं चण्डप्रसादस्ततः । सोमस्तत्तनयो नयोज्ज्वलमतिस्तस्याऽश्वराजः सुतः, पूतात्माऽथ तदङ्गभूः सुकृतभूः श्रीवस्तुपालोऽभवत् ॥५३॥ उत्फुल्लमल्लीप्रतिमल्लकीर्तिः, श्रीमल्लदेवोऽभवदग्रजन्मा। बभूव तस्यावरजश्च तेज:पालाभिधानः सचिवप्रधानम् ॥५४॥ श्रीवस्तुपालस्य चिरायुरस्तु , दिशां प्रकाशं दिशते सदा यः । कर्पूरकिर्मीरितकेरलस्त्रीरदावदातद्युतिभिर्यशोभिः ॥५५॥ क्षीणे चक्षुषि भेषजं भगवती कालीश्वरी देहिनां, देहे चित्रविचित्रभाजि शरणं श्रीवैद्यनाथः प्रभुः । संसारज्वरजर्जरे हृदि सदा विष्णु विष्णुर्मुदे, दौर्गत्ये च जिघांसिते गतिरसौ श्रीवस्तुपालः पुनः ॥५६॥
१. अयं कुमारस्य पुत्रः सोमेश्वरदेवकविः श्रीभीमदेवसभायामासीत् ॥ २. हेमचन्द्रः कुमारपालराज्ये वि० सं० १२२९ वर्षे स्वर्गमगमत् ॥ ३. अयं प्रह्लादनपण्डितः सोमेश्वरपितुः कुमारस्य गुरुः ॥
D:\sukarti.pm5\3rd proof