________________
८८]
[श्रीगिरिनारपर्वतस्थाः प्रशस्तिशिलालेखाः सोऽयं तस्य सुधाहरस्य कवितानिष्ठः कनिष्ठः कृती, बन्धुर्बन्धुरबुद्धिबोधमधुरः श्रीवस्तुपालाभिधः । ज्ञानाम्भोरुहकोटरे भ्रमरतां सारङ्गसाम्यं यशःसोमे सौरितुलां च यस्य महिमक्षीरोदधौ खं दधौ ॥६॥(*) इन्दुर्बिन्दुरपां सुरेश्वरसरिड्डिण्डीरपिण्ड: पतिर्भासां विद्रुमकन्दलः किल विभुः श्रीवत्सलक्ष्मा नभः । कैलास-त्रिदशेभ-शम्भु-हिमवत्प्रायास्तु मुक्ताफलस्तोमः कोमलवालुकाऽस्य च यश:क्षीरोदधौ कौमुदी ॥७॥ हस्ताग्रन्यस्तसारस्वतरसरसनप्राप्तमाहात्म्यलक्ष्मीस्तेजःपालस्ततोऽसौ जयति वसुभरैः पूरयन् दक्षिणाशाम् । यद्बुद्धिः कल्पितोरु(*)द्विपगहनपरक्षोणिभृद्बुद्धिसंपल्लोपामुद्राधिपस्य स्फुरति लसदिनस्फारसञ्चारहेतुः ।।८।। पुण्यश्री वि मल्लदेवतनयोऽभूत् पुण्यसिंहो यशोवर्यः स्फूर्जति जैत्रसिंह इति तु श्रीवस्तुपालात्मजः । तेजःपालसुतस्त्वसौ विजयते लावण्यसिंहः स्वयं, यैर्विशवेऽभवदेकपादपि कलौ धर्मश्चतुष्पादयम् ॥९॥
एते श्रीनागेन्द्रगच्छे भट्टारकश्रीउदय(*)प्रभसूरीणाम् । स्तम्भतीर्थेऽत्र कायस्थवंशे वाजडनन्दनः । प्रशस्तिमेतामलिखज्जैत्रसिंहध्रुवः सुधीः ॥१॥ वाहडस्य तनूजेन, सूत्रधारेण धीमता । एषा कुमारसिंहेन, समुत्कीर्णा प्रयत्नतः ॥२॥ श्रीनेमेस्त्रिजगद्भर्तुरम्बायाश्च प्रसादतः । वस्तुपालान्वयस्यास्तु , प्रशस्तिः स्वस्तिशालिनी ॥३॥
___ श्रीवस्तुपालप्रभोः प्रशस्तिरियं निष्पन्ना । शुभं भवतु ॥ १. पद्यमिदं सुकृतकीर्तिकल्लोलिन्यां १२८तमपद्यरूपेणापि दृश्यते ॥ २. पद्यमिदं सुकृतकीर्तिकल्लोलिन्यां ११७ पद्यतयाऽपि वर्त्तते ॥ ३. पद्यमिदं प्राचीनजैनलेखसङ्ग्रह २ भागे ३८-४१-४२ सङ्ख्यगिरिनारप्रशस्तिष्वपि प्रान्तभागे वर्त्तते ॥ ४. पद्यमिदं प्राचीनजैनलेखसङ्ग्रह २ भागे ३८४२सङ्ख्यगिरिनारसत्कप्रशस्त्योरपि प्रान्तेभागे वर्तते ॥ ५. पद्यमिदं प्राचीनजैनलेखसङ्ग्रह २ भागे ३८-३९-४०-४२सङ्ख्यगिरिनारप्रशस्तिष्वपि प्रान्तभागे वर्त्तते ॥
20
D:\sukarti.pm5\3rd proof