SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ नवमं परिशिष्टम् ] [८७ दुज्जयन्तमहातीर्थे श्रीनागेन्द्रगच्छे भट्टारकश्रीमहेन्द्रसूरिसंताने शिष्यश्रीशान्तिसूरिशिष्यश्रीआणन्दसूरि-श्रीअमरसूरिपट्टे भट्टारकश्रीहरिभद्रसूरिपट्टालंकरणप्रभुश्रीविजयसेनसूरिप्रतिष्ठित(*)-श्रीमदजितनाथदेवप्रमुखविंशतितीर्थंकरालंकृतोऽयमभिनवः समण्डपः श्रीसंमेतमहातीर्थावतारप्रासादः कारितः । छ । मुष्णाति प्रसभं वसु द्विजपतेर्गौरीगुरुं लङ्घयन् , नो धत्ते परलोकतो भयमहो ! हंसापलापे कृती । उच्चैरास्तिकचक्रवालमुकुट ! श्रीवस्तुपाल ! स्फुटं, भेजे नास्तिकतामयं तव यशःपूर: कुत्स्त्या (*)मिति ? ॥१॥ कोपाटोपपरैः परैश्चलचमूरङ्गत्तुरङ्गक्षतक्षोणीक्षोदरवशादशोषि जलधिः श्रीस्तम्भतीर्थे पुरे । 10 स्वेदाम्भस्तटिनीघटाघटनया श्रीवस्तुपालस्फुरत्तेजस्तिग्मगभस्तितप्ततनुभिस्तैरेव सम्पूरितः ॥२॥ दिग्यात्रोत्सववीरधवलक्षोणीधवाध्यासितं, प्राज्यं राज्यरथस्य भारमभितः स्कन्धे दधल्लीलया । भाति भ्रातरि दक्षिणे समगुणे श्रीवस्तुपालः कथं, 15 न श्लाघ्यः स्वयमश्वराजतनुजः कामं स वामस्थितिः ? ॥३॥ लावण्याङ्ग इति द्युतिव्यतिकरैः सत्याभिधानोऽभवद् , भ्राता यस्य निशानिशान्तविकसच्चन्द्रप्रकाशाननः । शङ्के शङ्करकोपसम्भ्रमभरादासीदनङ्गः स्मरः, साक्षादङ्गमयोऽयमित्यपहृतः स्वर्गाङ्गनाभिर्लघु ॥४।। रेक्तः सद्गतिभावभाजि चरणे श्रीमल्लदेवोऽपरो, यद्भ्राता परमेष्ठिवाहनतया प्राप्तः प्रतिष्ठां पराम् । खेलन्निर्मलमानसेन समयं क्वापि श्रयन् पङ्किलं, विश्वे राजति राजहंस इव यः संशुद्धपक्षद्वयः ॥५॥ १. पद्यमिदं धर्माभ्युदयमहाकाव्यनवमसर्गप्रान्तेऽपि दृश्यते ॥ २. पद्यमिदं सुकृतकीर्तिकल्लोलिन्यां १३७तमपदतयाऽपि वर्त्तते ॥ ३. पद्यमिदं सुकृतकीर्तिकल्लोलिन्यां १२१पद्यरूपेण उदयप्रभीयवस्तुपालस्तुतौ च ११पद्यरूपेणाऽपि दृश्यते ॥ ४. पद्यमिदं सुकृतकीर्तिकल्लोलिन्यां ११३पद्यतयाऽपि वर्त्तते ।। ५. पद्यमिदं सुकृतकीर्तिकल्लोलिन्यां ११५पद्यरूपेणाति वर्त्तते ॥ D:\sukarti.pm5\3rd proof
SR No.009571
Book TitleVastupal Prashasti Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages269
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy