________________
८४]
[श्रीगिरिनारपर्वतस्थाः प्रशस्तिशिलालेखाः स्तम्भश्रीअष्टापदमहातीर्थप्रभृतिअनेककीर्तनपरम्पराविराजिते श्रीनेमिनाथदेवाधिदेवविभूषितश्रीमदुज्जयन्तमहातीर्थे आत्मनस्तथा स्वधर्मचारिण्याः प्राग्वाटज्ञातीय ठ० श्रीकान्हडपुत्र्याः ठ० राणुकुक्षिसंभूताया महं० श्रीललितादेव्याः पुण्याभि(*)वृद्धये
श्रीनागेन्द्रगच्छे भट्टारकश्रीमहेन्द्रसूरिसंताने शिष्यश्रीशान्तिसूरिशिष्यश्रीआणन्दसूरि5 श्रीअमरसूरिपट्टे भट्टारकश्रीहरिभद्रसूरिपट्टालंकरणप्रभुश्रीविजयसेनसूरिप्रतिष्ठित
श्रीअजितनाथदेवादिविंशतितीर्थंकरालंकृतोऽयमभिनवः समण्डपः श्रीसंमेतमहातीर्थावतारप्रासादः कारितः ।।
से श्रीजिनाधिपतिधर्मधराधुरीणः, श्लाघास्पदं कथमिवास्तु न वस्तुपालः? । श्री-शारदा-सुकृत-कीर्ति-नयादिवेण्याः, पुण्यः परिस्फुरति जङ्गमसङ्गमो यः ॥१॥ विभुता-विक्रम-विद्या-विदग्धता-वित्त-वितरण-विवेकैः । यः सप्तभिर्विकारैः, कलितोऽपि बभार न विकारम् ॥२॥ यस्य भूः किमसावस्तु , वस्तुपालसतः सदा । नावर्णासावथाप्येतो, धर्मकर्मकृतौ कृतौ ॥३॥ कस्यापि कविता नास्ति, विनाऽस्य हृदयामुखम् । वास्तवं वस्तुपालस्य, पश्यामस्तद् वयं च यम् ॥४॥ दुर्गः स्वर्गगिरिः स कल्पतरुभिर्भेजे न चक्षुष्पथे, तस्थौ कामगवी जगाम जलधेरन्तः स चिन्तामणिः । कालेऽस्मिन्नवलोक्य यस्य करुणं(णां) तिष्ठेत कोऽन्यस्ततः, पुण्यः सोऽस्तु न वस्तुपालसुकृती दानैकवीरः कथम् ? ॥५॥ सोऽयं मन्त्री गुरुरतितरामुद्धरन् धर्मभारं, श्लाघाभूमिं नयति न कथं वस्तुपालः सहेलम् ? । तेजःपालः स्वबलधवलः सर्वकर्मीणबुद्धि
द्वैतीयीक: कलयतितरां यस्य धौरेयकत्वम् ॥६॥ १. पद्यमिदं नरचन्द्रीयवस्तुपालप्रशस्तौ पञ्चमपद्यत्वेनापि दृश्यते ।। २. पद्यमिदं धर्माभ्युदयमहाकाव्यप्रथमसर्गे २३तमपद्यत्वेनाऽपि वर्त्तते ॥ ३. पद्यमिदं नरचन्द्रीयवस्तुपालप्रशस्तौ चतुर्थपद्यतयाऽपि दृश्यते ॥
D:\sukarti.pm5\3rd proof