________________
नवमं परिशिष्टम् ]
हरिमण्डप - नन्दीश्वरशिल्पश्वरसोमदेवपौत्रेण । बकुलस्वामिसुतेनोत्कीर्णा पुरुषोत्तमेनेयम् ॥२॥
[ ८३
श्रीवस्तुपालप्रभोः प्रशस्तिरियं निष्पन्ना || मङ्गलं महाश्रीः ॥ ( गिरनार इन्स्क्रिप्शन्स नं० २ । २६-२७)
(४२-५)
ॐ नमः सर्वज्ञाय ।
5
ये उज्जयन्तं.
. जयाभूप्रजाकल्याणा |
स्वस्ति श्रीविक्रमसंवत् १२८८ वर्षे फागुण शुदि १० बुधे श्रीमदणहिलपुरवा(*)स्तव्यप्राग्वाटान्वयप्रसूत ठ० श्रीचण्डपालात्मज ठ० श्रीचण्डप्रसादाङ्गञ्ज ठ० श्रीसोमतनुज ठ० श्रीआशाराजनन्दनस्य ठ० श्रीकुमारदेवीकुक्षिसंभूतस्य ठ० श्रीलुणिग 10 महं० श्रीमालदेवयोरनुजस्य महं० श्रीतेजःपालाग्रजन्मनो महामात्य श्रीवस्तुपालस्यात्मजे महं० श्रीललितादेवीकुक्षिसरोवरराजहंसाय (*)माने महं० श्रीजयन्तसिंहे सं० ७९ वर्षपूर्वं स्तम्भतीर्थे मुद्राव्यापारान् व्यापृण्वति सति सं० ७७ वर्षे श्रीशत्रुंजययोज्जयन्तप्रभृतिमहातीर्थयात्रोत्सवप्रभावाविर्भूतश्रीमद्देवाधिदेवप्रसादासादितसंघाधिपत्येन चौलुक्यकुलनभस्तलप्रकाशनैकमार्तण्डमहाराजाधिराजश्रीलवणप्रसाददेवसुतमहाराज श्रीवीरध - 15 (*)वलदेवप्रीतिप्रतिपन्नराज्यसर्वैश्वर्येण श्री - शारदाप्रतिपन्नापत्येन महामात्य श्रीवस्तुपालेन तथाऽनुजेन सं० ७६ वर्षपूर्वं गूर्जरमण्डले धवलक्ककप्रमुखनगरेषु मुद्राव्यापारं व्यापृण्वता महं० श्रीतेजःपालेन च श्रीशत्रुंजया -ऽर्बुदाचलप्रभृतिमहातीर्थेषु श्रीमदणहिलपुर- भृगुपुर-स्त (*) म्भनकपुर-स्तम्भतीर्थ-दर्भवती - धवलक्कक - प्रमुखनगरेषु तथाऽन्यसमस्तस्थानेष्वपि कोटिशोऽभिनवधर्मस्थानानि प्रभूतजीर्णोद्धाराश्च कारिताः । तथा 20 सचिवेश्वरवस्तुपालेनेह स्वयंनिर्मापित श्रीशत्रुंजयमहातीर्थावतारश्रीमदादितीर्थंकरश्रीऋषभदेव-स्तम्भनकपुरावतार श्रीपार्श्वनाथदेव - सत्यपुरावतार - श्री (*) महावीरदेवप्रशस्तिसहित-कश्मीरावतारश्रीसरस्वतीमूर्तिदेवकुलिकाचतुष्टय-जिनयुगला-ऽम्बा
ऽवलोकनाशाम्ब-प्रद्युम्नशिखरेषु श्रीनेमिनाथदेवालंकृतदेवकुलिकाचतुष्टयतुरगाधिरूढनिजपितामह ठ० श्रीसोम - स्वपितृ ठ० श्रीआशाराजमूर्तिद्वितय - चारुतोरणत्रय - 25 श्रीनेमिनाथदेव-आत्मीय(*) पूर्वजा - ऽग्रजा -ऽनुज - पुत्रादिमूर्तिसमन्वितमुखोद्घाटनक१. पद्यमिदं प्राचीनजैनलेखसङ्ग्रह २ भागे ३९-४०सङ्ख्यगिरिनारसत्कप्रशस्त्योरपि प्रान्तभागे वर्त्तते ॥
D:\sukarti.pm5 \ 3rd proof