________________
८२]
[श्रीगिरिनारपर्वतस्थाः प्रशस्तिशिलालेखाः ज्योत्स्नाभाः कुमुदाकरेषु सदनोद्यानेषु पुष्पोल्बणाः, स्फूर्ति कामिव वस्तुपालकृतिनः कुर्वन्ति नो कीर्तयः ? ।।८।। देव स्वर्नाथ ! कष्टं, ननु क इव भवान् ? नन्दनोद्यानपालः, खेदस्तत् कोऽद्य ? केनाप्यहह ! हृत इत: काननात् कल्पवृक्षः । हुँ मा वादीस्तदेतत् किमपि(*) करुणया मानवानां मयैव, प्रीत्याऽऽदिष्टोऽयमूळस्तिलकयति तलं वस्तुपालच्छलेन ॥९॥ श्रीमन्त्रीश्वरवस्तुपालयशसामुच्चावचैर्वीचिभिः, सर्वस्मिन्नपि लम्भिते धवलतां कल्लोलिनीमण्डले । गङ्गैवेयमिति प्रतीतिविकलास्ताम्यन्ति कामं भुवि, भ्राम्यन्तस्तनुसादमन्दितमुदो मन्दाकिनीयात्रिकाः ॥१०॥ वक्त्रं (*) निर्वासनाज्ञानयनपथगतं यस्य दारिद्रयदस्योदृष्टिः पीयूषवृष्टिः प्रणयिषु परितः पेतुषी सप्रसादम् । प्रेमालापस्तु कोऽपि स्फुरदसमपरब्रह्मसंवादवेदी, नेदीयान् वस्तुपालः स खलु यदि तदा को न भाग्यैकभूमिः ? ॥११।। साक्षाद् ब्रह्म परं धरागतमिव श्रेयोविवर्तेः सतां, तेजःपाल इति प्रसिद्धमहिमा तस्यानु(*)जन्मा जयी । यो धत्ते न दृशां कदाऽपि कलितावद्यामविद्यामयीं, यं चोपास्य परिस्पृशन्ति कृतिनः सद्यः परां निर्वृतिम् ॥१२॥ आकृष्टे कमलाकुलस्य कुदशारम्भस्य संस्तम्भनं, वश्यत्वं जगदाशयस्य यशसामाशान्तनिर्वासनम् । मोहः शत्रुपराक्रमस्य मृतिरप्यन्यायदस्योरिति, स्वैरं षड्विधर्मनिर्मितिमया मन्त्रोऽस्य मन्त्रीशितुः ॥१३॥(*)
एते मलधारिश्रीनरेन्द्रसूरीणाम् ॥ स्तम्भतीर्थेऽत्र कायस्थवंशे वाजडनन्दनः । प्रशस्तिमेतामलिखज्जेत्रसिंहध्रुवः सुधीः ॥१॥
15
20
25
१. पद्यमिदं नरेन्द्रप्रभीयलघुवस्तुपालप्रशस्तौ २७तमपद्यरूपेणापि वर्त्तते ॥ २. पद्यमिदं नरेन्द्रप्रभीयलघुवस्तुपालप्रशस्तौ २५तमपद्यरूपेणपि वर्त्तते ॥ ३. पद्यमिदं नरेन्द्रप्रभीयलघुवस्तुपालप्रशस्तौ १९पद्यरूपेणापि वर्त्तते ॥ ४. पद्यमिदं प्राचीनजैनलेखसङ्ग्रह २ भागे ३८-४२-४३ सङ्ख्यगिरिनारसत्कप्रशस्तिष्वपि प्रान्तभागे दृश्यते ।
D:\sukarti.pm5\3rd proof