________________
नवमं परिशिष्टम् ]
[८१ दृष्टे सम्प्रति वस्तुपालसचिवत्यागे करिष्यन्ति ताः, कीर्ति काञ्चन या पुनः स्फुटमियं विश्वेऽपि नो मास्यति ॥१॥ कोटीरैः कटका-ऽङ्गलीय-तिलकैः केयूर-हारादिभिः, कौशेयैश्च विभूष्यमाणवपुषो यत्पाणिविश्राणितैः । विद्वांसो गृहमागताः प्रणयिनीरप्रत्यभिज्ञाभृतस्तैस्तैः स्वं शपथैः कथं कथमिव प्रत्याययाञ्चक्रिरे ॥२॥ न्यासं व्यातनुतां विरोचनसुत(*)स्त्यागं कवित्वश्रियं, भास-व्यासपुर:सराः पृथु-रघुप्रायाश्च वीरव्रतम् । प्रज्ञां नाकिपताकिनीगुरुरपि श्रीवस्तुपाल ! ध्रुवं, जानीमो न विवेकमेकमकृतोत्सेकं तु कौतस्कुतम् ? ॥३॥ वास्तवं वस्तुपालस्य, वेत्ति कश्चरिताद्भुतम् ? । यस्य दानमविश्रान्तमर्थिष्वपि रिपुष्वपि ॥४॥ स्तोतव्यः खलु वस्तुपालसचिवः कैर्नाम वाग्वैभवैर्यस्य (*) त्यागविधिर्विधूय विविधां दारिद्र्यमुद्रां हठात् । विश्वेऽस्मिन्नखिलेऽप्यसूत्रयदसावर्थीति दातेति च, द्वौ शब्दावभिधेयवस्तुविरहव्याहन्यमानस्थिती ॥५॥ आद्येनाप्यपवर्जनेन जनितार्थित्वप्रमाथान् पुनः, स्तोकं दत्तमिति क्रमानन्तरगतानाह्वाययन्नर्थिनः । पूर्वस्माद् गणसङ्ख्ययाऽपि गुणितं यस्तेष्वनावर्तिषु , द्रव्यं (*) दातुमुदस्तहस्तकमलस्तस्थौ चिरं दुस्थितः ॥६॥ विश्वेऽस्मिन् किल पङ्कपङ्किलतले प्रस्थानवीथीं विना, सीदन्नेष पदे पदे न पुरतो गन्तेति सञ्चिन्तयन् । धर्मस्थानशतच्छलेन विदधे धर्मस्य वर्षीयसः, सञ्चाराय शिलाकलापपदवीं श्रीवस्तुपालः स्फुटम् ॥७॥ अम्भोजेषु मरालमण्डलरुचो डिण्डीरपिण्डत्विषः,
25 कासारेषु (*) पयोधिरोधसि लुठन्निर्णिक्तमुक्ताश्रियः । १. पद्यमिदं मलधारिनरेन्द्रप्रभीयलघुवस्तुपालप्रशस्तौ पञ्चदशपद्यरूपेणाऽपि दृश्यते ॥ २. पद्यमिदं नरेन्द्रप्रभीयलघुवस्तुपालप्रशस्तौ चतुर्थपद्यतयाऽपि वर्त्तते ॥
D:\sukarti.pm5\3rd proof