________________
८०]
[श्रीगिरिनारपर्वतस्थाः प्रशस्तिशिलालेखाः वास्तव्यप्राग्वाटान्वयप्रसूत ठ० श्रीचण्डपालात्मज ठ० श्रीचण्डप्रसादाङ्गज ठ० श्रीसोमतनुज ठ० श्रीआशाराजनन्दनस्य ठ० श्रीकुमारदेवीकुक्षिसंभूतस्य ठ० श्रीलुणिग महं० श्रीमालदेवयोरनुजस्य महं० श्रीतेजःपालाग्रजन्मनो महामात्यश्रीवस्तुपालस्यात्मजे
(*) महं० श्रीललितादेवीकुक्षिसरोवरराजहंसायमाने महं० श्रीजयन्तसिंहे सं० ७९ वर्षपूर्वं 5 स्तम्भनकतीर्थमुद्राव्यापारं व्यापृण्वति सति सं० ७७ वर्षे श्रीशजयोज्जयन्त
प्रभृतिमहातीर्थयात्रोत्सवप्रभावाविर्भूतश्रीमद्देवाधिदेवप्रसादासादितसंघाधिपत्येन चौलुक्यकुलनभस्तलप्रकाशनैक(*)मार्तण्डमहाराजाधिराजश्रीलवणप्रसाददेवसुतमहाराजश्रीवीरधवलदेवीप्रीतिप्रतिपन्नराज्यसर्वैश्वर्येण श्री-शारदाप्रतिपन्नापत्येन महामात्य
श्रीवस्तुपालेन तथाऽनुजेन सं० ७६ वर्षपूर्वं गूर्जरमण्डले धवलक्ककप्रमुखनगरेषु 10 मुद्राव्यापारान् व्यापृण्वता महं० श्रीतेजःपालेन च श्री(*)शजया-ऽर्बुदाचलप्रभृति
महातीर्थेषु श्रीमदणहिलपुर-भृगुपुर-स्तम्भनकपुरस्तम्भतीर्थ-दर्भवती-धवलक्ककप्रमुखनगरेषु तथाऽन्यसमस्तस्थानेष्वपि कोटिशोऽभिनवधर्मस्थानानि प्रभूतजीर्णोद्धाराश्च कारिताः । तथा सचिवेश्वरवस्तुपालेनेह स्वयंनिर्मापितश्रीशत्रुजयमहातीर्थाव(*)तार
श्रीमदादितीर्थंकरश्रीऋषभदेव-स्तम्भनकपरावतारश्रीपार्श्वनाथदेव-सत्यपरावतार15 श्रीमहावीरदेवप्रशस्तिसहित-कश्मीरावतारश्रीसरस्वतीमूर्तिदेवकुलिकाचतुष्टयजिनयुगला-ऽम्बा-ऽवलोकनाशाम्ब-प्रद्युम्नशिखरेषु श्रीनेमिनाथदेवालंकृतदेवकुलिकाचतुष्टय-तुरगाधिरूढनि(*)जपितामह ठ० श्रीसोम-स्वपितृ ठ० श्रीआशाराजमूर्तिद्वितय-तोरणत्रय-श्रीनेमिनाथदेव-आत्मीयपूर्वजा-ऽग्रजा-ऽनुज-पुत्रादिमूर्तिसमन्वितमुखोद्घाटनकस्तम्भश्रीसंमेतावतारमहातीर्थप्रभृतिअनेककीर्तनपरम्पराविराजिते श्रीनेमि20 नाथदेवाधिदेवविभूषितश्रीमदुज्जयन्तमहातीर्थे आ(*)त्मनस्तथा स्वभार्यायाः प्राग्वाट
ज्ञातीय ठ० श्रीकान्हडपुत्र्याः ठ० राणुकुक्षिसंभूताया महं० श्रीसोखुकायाः पुण्याभिवृद्धये श्रीनागेन्द्रगच्छे भट्टारकश्रीमहेन्द्रसूरिसंताने शिष्यश्रीशान्तिसूरिशिष्यश्रीआणन्दसूरिश्रीअमरसूरिपट्टे भट्टारकश्रीहरिभद्रसूरिपट्टालंकरणप्रभुश्रीविजयसेनसूरिप्रतिष्ठित
(*)तश्रीमदादिजिनराजश्रीऋषभदेवप्रमुखचतुर्विंशतितीर्थंकरालंकृतोऽयमभिनवः समण्डपः 25 श्रीअष्टापदमहातीर्थावतारनिरुपमप्रधानप्रासादः कारितः ।।
स्वस्ति श्रीबलये नमोऽस्तु नितरां कर्णाय दाने ययो
रस्पष्टेऽपि दृशां यशः कियदिदं वन्द्यास्तदेताः प्रजाः । १. पद्यमिदं मलधारिनरेन्द्रप्रभीयलघुवस्तुपालप्रशस्तौ द्वादशपद्यतयाऽपि दृश्यते ॥
D:\sukarti.pm5\3rd proof