________________
नवमं परिशिष्टम् ]
[७९ विबुधैः पयोधिमध्यादेको बहु(*)भिः करीन्दुरुपलब्धः । बहवस्तु वस्तुपाल !, प्राप्ता विबुध ! त्वयैकेन ॥१४॥ प्रथमं धनप्रवाहै हैरथ नाथमात्मनः सचिवः । अधुना तु सुकृतसिन्धुः, सिन्धुरवृन्दैः प्रमोदयति ॥१५॥ श्रीवस्तुपाल ! भवता, जलधेर्गम्भीरता किलाऽऽकलिता । आनीय ततो गजता, स्वपतिद्वारे यदाकलिता ॥१६।।
एते श्रीमद्गुजरेश्वरपुरोहि(*)त ठ० श्रीसोमेश्वरदेवस्य ।। इह वालिगसुतसहजिगपुत्राऽऽनकतनुजवाजडतनूजः । अलिखदिमां कायस्थः, स्तम्भपुरीयध्रुवो जयतसिंहः ॥१॥ हरिमण्डप-नन्दीश्वरशिल्पीश्वरसोमदेवपौत्रेण ।
10 बकुलस्वामिसुतेनोत्कीर्णा पुरुषोत्तमेनेयम् ॥२॥
महामात्यश्रीवस्तुपालस्य प्रशस्तिरियं निष्पन्ना ॥६०३।। श्रीनेमेस्त्रिगद्भर्तुरम्बायाश्च प्रसादतः । वस्तुपालान्वयस्यास्तु , प्रशस्तिः स्वस्तिशालिनी ॥३॥ महामात्यश्रीवस्तुपालभार्या महं० श्रीसोखुकाया धर्मस्थानमिदम् ॥ 15
(गिरनार इन्स्क्रिप्शन्स् नं० २ । २४-२५)
(४१-४)
ॐ नमः श्रीनेमिनाथदेवाय ॥ तीर्थेशाः प्रणतेन्द्रसंहतिशिर:कोटीरकोटिस्फुरतेजोजालजलप्रवाहलहरीप्रक्षालितांघ्रिद्वयः । ते वः केवलमूर्तयः कवलितारिष्टां विशिष्टाममी,
तामष्टापदशैलमौलिमणयो विश्राणयन्तु श्रियम् ॥१॥ स्वस्ति श्रीविक्रमार्कसंवत् १२८८ वर्षे फागुण (*) शुदि १० बुधे श्रीमदणहिलपुर
१. पद्यमिदं प्राचीनजैनलेखसङ्ग्रह २ भागे ३९सङ्ख्यगिरिनारसत्कप्रशस्तावपि प्रान्तभागे वर्त्तते ।। २. पद्यमिदं प्राचीनजैनलेखसङ्ग्रह २ भागे ३९-४१सङ्ख्यगिरिनारप्रशस्तयोरपि प्रान्तभागे वर्तते॥३. पद्यमिदं प्राचीनजैनलेखसङ्ग्रह २ भागे ३८-३९-४२-४३सङ्ख्यगिरिनारसत्कप्रशस्तिष्वपि प्रान्तभागे वर्त्तते ॥
D:\sukarti.pm5\3rd proof