________________
नवमं परिशिष्टम् ]
[८५ एतस्मिन् वसुधासुधाजलधरे श्रीवस्तुपाले जगज्जीवातौ सिचयोच्चयैर्नवनैर्नक्तंदिवं वर्षति (*) । आस्तामन्यजनो घनोज्झितशशिज्योत्स्नाच्छवल्गद्गुणोद्भूतैरद्य दिगम्बराद्यपि यशवासोभिराच्छादितम् ॥७॥ लक्ष्मीर्मन्थाचलेन्द्रभ्रमणपरिचयादेव पारिप्लवेयं, भ्रूभङ्गस्यैव भङ्गाच्चकितमृगदृशां प्रेमनस्थेतरस्य । आयुनिःश्वासवायुप्रणयपरतयैवेवमस्थैर्यदुस्थं, स्थास्नुर्धर्मोऽयमेकः परमिति हृदये(*) वस्तुपालेन मेने ॥८॥ तेजःपालस्य विष्णोश्च, क: स्वरूपं निरूपयेत् ? । स्थितं जगत्रयीं पातुं , यदीयोदरकन्धरे ॥९॥ ललितादेवी नाम्ना, सर्मिणी वस्तुपालस्य । अस्यामनिरस्तनयस्तनयोऽयं(*) जयतसिंहाख्यः ॥१०॥ दृष्ट्वा वपुश्च वी......च, परस्परविरोधिनी । विवादा......जैत्रसिंहस्तारुयवाद्रि (?) कः ॥११॥(*)
कृतिरियं मलधारिश्रीनरचन्द्रसूरीणाम् ॥ 15 स्तम्भतीर्थेऽत्र कायस्थवंशे वाजडनन्दनः । प्रशस्तिमेतामलिखज्जेत्रसिंहध्रुवः सुधीः ॥१॥ वाहडस्य तनूजेन, सूत्रधारेण धीमता । एषा कुमारसिंहेन, समुत्कीर्णा प्रयत्नतः ॥२॥ श्रीनेमेस्त्रिजगद्भर्तुरम्बायाश्च प्रसादतः । वस्तुपालान्वयस्यास्तु , प्रशस्तिः स्वस्तिशालिनी ॥३॥
(गिरनार इन्स्क्रिप्शन्स नं० २ । २७-२९) १. पद्यमिदं नरचन्द्रीयवस्तुपालप्रशस्तौ षोडशपद्यतयाऽपि वर्त्तते ॥ २. पद्यमिदं प्राचीनजैनलेखसङ्ग्रह २ भागे ६४सङ्ख्यअर्बुदाचलसत्कशिलालेखे षोडशं सोमेश्वरदेवकृतितया वर्त्तते ।। ३. पद्यमिदं प्राचीनजैनलेखसङ्ग्रह २ भागे ३८-४१-४२सङ्ख्यगिरिनारप्रशस्तिष्वपि प्रान्तभागे वर्त्तते ॥ ४. पद्यमिदं प्राचीनजैनलेखसङ्ग्रह २ भागे ३८-४३सङ्ख्यगिरिनारसत्कप्रशस्त्योरपि प्रान्तभागे वर्त्तते ॥ ५. पद्यमिदं प्राचीनजैनलेखसङ्ग्रह २ भागे ३८-३९-४०-४३सङ्ख्यगिरिनारप्रशस्तिष्वपि प्रान्तभागे वर्त्तते ॥
D:\sukarti.pm5\3rd proof