________________
१२४]
[वसन्तविलासमहाकाव्यम् ॥ गुरून् पप्रच्छ । तैरुपासकदशाभिधसप्तमाङ्गाज्जिनोदिते देवपूजावश्यकयतिदानादिके गृहिधर्मे समुपदिष्टे, ततःप्रभृति स देवतार्चनविशेषजैनमुनिदानाद्यं धर्मकृत्यमारब्धवान् । वर्षत्रितयदेवतावसरायपदेन पृथक्कृतेन षट्त्रिंशत्सहस्रप्रमाणेन द्रव्येण बाउलाग्रामे श्रीनेमिनाथप्रासादः समजनि ।
(अत्र Pआदर्श निम्नगता विशेषाः श्लोका लिखिता लभ्यन्ते-) सांयात्रिकजनो येन कुर्वाणो हरणं नृणाम् । निषिद्धस्तदभूदेष धर्मोदाहरणं भुवि ॥ स्पृष्टास्पृष्टनिषेधाय विधायावधिवेदिकाम् । पुरेऽस्मिन् वारितस्तेन तक्रविक्रयविप्लवः ॥ यन्न्यूनं यत्र यन्नष्टं यस्तत्र तदचीकरत् । उत्पत्तिरुत्तमानां हि रिक्तपूरणहेतवे । अकल्पयदनल्पानि देवेभ्यः काननानि यः । हरनेत्राग्नितापस्य यत्र न स्मरति स्मरः ॥ रम्भासम्भावितैर्यस्य वनैर्वृषनिषेवितैः । मनोज्ञसुमनोवगैः स्वर्गसौन्दर्यमाददे ॥ सङ्ग्रहीतानि हारीतशुकचित्रशिखण्डिभिः । धर्मशास्त्रसधर्माणि यस्योद्यानानि रेजिरे ॥ दर्शयन् सुमनोभावं श्रीमत्तामतुलामयम् । काननानां स्वबन्धूनां स्वबन्धूनामिवाकरोत् ॥ आददानाः पयःपूरं यत्कासारेषु कासराः । विराजन्तेतरां पारावारेष्विव पयोधराः ॥ अकारयदयं वापीरपापी यः क्रियारतः । सुधायामपि माधुर्यं यज्जलैर्गलहस्तितम् ॥ ताः प्रपाः कारितास्तेन यदीयं पिबतां पयः । तृप्यन्त्यास्यानि पान्थानां न रूपं पश्यतां दृशः ॥ भवार्णवतरी ब्रह्मपुरी येनात्र निर्ममे । यस्यां गायन्ति सामानि नरा नार्यस्तु तद्यशः ॥ स्फुटं वेष्टयता शुभैः कीर्तिकूटैः पटैरिव । दशापि ग्राहिता येन दिशः श्वेताम्बरव्रतम् ॥ येन पौषधशालास्ताः कारितास्तारितात्मना । मध्ये श्वेताम्बरैर्यासां विशुद्धिः सुधया बहिः ॥ यस्य पौषधशालासु यतयः संवसन्ति ते । सदा येषामदाराणामात्मभूसम्भवः कुतः ॥ ज्ञानाख्यं यस्य तच्चक्षुर्वाचां देवी ददे मदा । नित्यं येनैष धर्मस्य गतिं सक्ष्मामपीक्षते ॥
अथ सं० १२७७ वर्षे सरस्वतीकण्ठाभरण-लघुभोजराज-महाकवि-महामात्य-श्रीवस्तुपालेन महायात्रा प्रारेभे । गुरूपदिष्ट लग्ने तत्कृतसङ्घाधिपत्याभिषेकेण श्रीदेवालयप्रस्थाने उपक्रम्यमाणे दक्षिणपक्षे दुर्गादेव्याः स्वरमाकर्ण्य स्वयं तद्विदा शाकुनिकेन किञ्चिच्चिन्तयति । कश्चिन्मरुवृद्धः 'शकुनं भारितं विधेहीत्यभिदधानः, शकुनाच्छब्दो बलीयानिति विचार्य पुराद् बहिरावासेषु श्रीदेवालयं संस्थाप्य शाकुनव्यतिकरं पृष्टो मार्गवैषम्ये शकुनानां वैपरीत्यं श्लाघ्यते । राज्यविकलतायां तीर्थमार्गाणां वैषम्यम् । तथा यत्र सा दुर्गा दृष्टिपथं गता तत्र कमपि दक्षं पुरुषं प्रस्थाप्य स प्रदेशो दर्श्यताम् । तथाकृते स पुरुष इति विज्ञपयामास-'यत् तस्मिन् वरण्डके नवीक्रियमाणे सार्द्धत्रयोदशे घरे (गृहे ?) निषण्णा देव्यभूत्' । अथ स मरुवृद्धो 'देवी भवतः सार्द्धत्रयोदशसङ्ख्या यात्रा अभिहितवती' । अन्त्यार्द्धयात्राहेतुं भूयः पृष्टे स प्राह-इहातुलमङ्गलावसरे तद्वक्तुं न युक्तम् । समये सर्वं निवेदयिष्याम्' इति वाक्यानन्तरं श्रीसङ्घन समं स मन्त्री पुरतः प्रयाणमकरोत् । सर्वसङ्ख्ययावाहनानामर्द्धपञ्चमसहस्त्राणि, एकविंशतिशतानि श्वेताम्बराणाम् , त्रिशती दिग्वाससाम् , सङ्घरक्षाधिकारे सहस्रं तुरङ्गमाणाम् , सप्तशती रक्तकरभीणाम् , सङ्गरक्षाधिकारिण्यश्चत्वारो महासामन्ताः । इत्थं समग्रसामग्र्या मार्गमतिक्रम्य श्रीपादलिप्तपुरे स्वयं कारिते श्रीमहावीर
D:\bsnta-p.pm5\2nd proof