SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ ९२] [वसन्तविलासमहाकाव्यम् ॥ अस्तु स्वस्ति स्वगोत्रार्णवनवशशिने दुर्नयध्वान्तजृम्भाविष्कम्भाय स्वभावप्रसृमरमहसे जैत्रसिंहाय तस्मै । येन क्षोणीधुरायां सह किरिकमठाहीश्वरैरुद्धृतायां निश्चिन्तोऽयं वसन्तः सुरपुरमसुरानुद्भुनानः पुनाति ॥५५॥ 5 इति सिद्धसारस्वताचार्यश्रीबालचन्द्रविरचिते वसन्तविलासनामनि महाकाव्ये सद्गतिपाणिग्रहणो नाम चतुर्दशः सर्गः ॥ तेजःपालवसन्तपालसचिवद्वन्द्वानुरागोल्लसत्कौसुम्भे धर धिष्ण्यमौक्तिकभृतं स्थालं नभस्त्वं धरे ! । चन्द्र ! त्वं भव वन्दनं भव रवे ! त्वं दीपिका त्वं दधि स्वर्गले भव जैत्रसिंहसुकृती येनाद्य वर्धाप्यते ॥१॥ वाग्वल्लीदलदस्यवः कति न वा सन्त्याखुतुल्योपमाः सत्योल्लेखमुषः स्वकोष्ठपिठरीसम्पूर्तिधावद्धियः । सोऽन्यः कोऽपि विदर्भरीतिबलवान् बालेन्दुसूरिः पुरो यस्य स्वर्गिपुरोहितोऽपि न गिरां पौरोगवस्तादृशः ॥२॥ अपराजितकवेः ॥ समाप्तं वसन्तविलासकाव्यम् ॥ D:\chandan/new/bsnta/pm5\3rd proof
SR No.009570
Book TitleVasant Vilas Mahakavyam
Original Sutra AuthorBalchandrasuri
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages211
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy