________________
शिशुपालवधम्
अन्वयः -- अतीन्द्रियज्ञाननिधिः सः कृतानतीन् अनुव्रजतः नभःसदः निवर्त्य सादितदैत्यसम्पदः चक्रिणः महेन्द्रालयचारु पदं समासदत् ॥ ११ ॥
१२
हिन्दी अनुवाद -- अतीन्द्रिय ज्ञान के निधि ( अर्थात् सर्वद्रष्टा ) वे ( नारद ) नमस्कार किये हुये तथा पीछे-पीछे आनेवाले ( अनुगामी) देवताओं को लौटाकर असुरों की सम्पत्ति को नष्ट करने वाले श्रीकृष्ण के इन्द्रभवन के समान सुन्दर (निवास) स्थान में पहुँचे ॥ ११ ॥
प्रसङ्ग - शिष्टाचार का पालन करते हुए श्रीकृष्ण ने अपने आसन से उठकर नारद का स्वागत किया ।
पतत्' पतङ्गप्रतिमस्तपोनिधिः पुरोऽस्य यावन्न भुवि व्यलीयत । गिरेस्तडित्वानिव तावदुच्चकैर्जवेन पीठादुदतिष्ठदच्युतः ॥ १२ ॥
पतदिति ॥ पतन् यः पतङ्गः सूर्यः स प्रतिमोपमानं यस्य सः ।' पतङ्गी पक्षिसूर्यौ च' इत्यमरः । तपोनिधिर्मुनिरस्य हरेः पुरो भुवि पुरः प्रदेशे यावन्न व्यलीयत नातिष्ठत् । 'लीङ् गतौ' इति धातोर्देवादिकात्कर्तरि लङ् । तावदच्युतो हरिगिरेः शैलात् । तडितोऽस्य सन्तीति तडित्वान्मेघ इव । 'मादुपधायाश्च मतोर्वोऽयवादिभ्यः' ( 11 ) इति मतुपो मकारस्य वकारः । ' तसौ मत्वर्थे (१|४|१६ ) इति भसंज्ञायामेकसंज्ञाधिकारेणापदत्वान्न जश्त्वम् । उच्चकैरुन्नतात्पीठादासनाज्जवेनोदतिष्ठत् । मुनिचरणस्य भूस्पर्शात्प्रागेव स्वयमुत्थितवान् ।
'ऊर्ध्वं प्राणा ह्यत्क्रामन्ति यूनः स्थविर आयति । प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्यते ॥ ( मनु. २।१२० )
इति शास्त्रमनुस्मरन्निति भावः । 'उदोऽनूर्ध्वकर्मणि' ( १ । ३ । २४ ) इति नियमादिहोधर्वकर्मणि नात्मनेपदम् । पतत्पतङ्ग इत्यत्र पतनासम्भवादियमभूतोपममेत्याचार्यदण्डभृतयो बभणुः । अत एवाप्रसिद्धस्योपमानत्वायोगादुत्प्रेक्षेत्याधुनिकालङ्कारिकाः सर्वे वर्णयन्ति ।। १२ ।।
अन्वयः -- पतत्पतङ्गप्रतिमः तपोनिधिः अस्य पुनः भुवि यावत् न व्यलीयत, तावत् अच्युतः गिरेः तडित्वान् इव उच्चकैः पीठात् जवेन उदतिष्ठत् ॥ १२ ॥
के
हिन्दी अनुवाद -- गिरते हुए सूर्य इनके ( श्रीकृष्ण के सामने भूमि पर रक्खा या नहीं कि ) श्रीकृष्ण पर्वत से उठ खड़े हुए ।। ९२ ।
समान ( तेजस्वी ) तपोनिधि ( नारद ) अवस्थित हुए नहीं कि तबतक ( पैर मेघ की तरह ऊँचे आसन से वेगपूर्वक
विशेष - ( १ ) इस श्लोक में कवि माघ
१. पतन् पतङ्ग० ।
ने मनु
के उस वचन की ओर ध्यान