________________
शिशुपालवधम् सहेममेव श्लोकं षट्पदच्छन्दस उदारणमाह । तत्राद्यचरणद्वयेन सन्देहाकारो गतमिति तन्निरासश्च बोध्य इत्युपरिष्टात् ॥ २ ॥
अन्वयः-अनूरुसारथेः गतं तिरश्वीनं प्रसिद्धम् , हविर्भुजः ऊर्ध्वज्वलनं (प्रसिद्धम्), सर्वतः विसारि ( इदं तु ) धाम अधः पतति, एतत् किम् इति जनैः आकुलं ( यथा तथा ) ईक्षितम् ॥ २॥
हिन्दी अनुवाद-सूर्य की गति ( सूर्य का गमन ) तिरछी प्रसिद्ध है और अग्नि की ज्वाला का ऊपर ( की ओर ) जाना (प्रसिद्ध है) किन्तु चारों ओर अपने तेज को फैलाने वाला ( यह ) तेज (ऊपर से ) नीचे आ रहा है। यह क्या है ? इस प्रकार लोगों ने ( उस तेज विशेष को ) व्याकुलता पूर्वक देखा ॥ २ ॥
विशेष-'सूरसूतोऽरुणोऽनूरुः काश्यपिर्गरुडाग्रजः ।' इत्यमरः; कोष के अनुसार सूर्य के सारथी के लिए सूर्यसूत, अरुण, अनूरु, काश्यप और गरुड़ाग्रज-ये शब्द हैं । पौराणिक कथा के अनुसार विनता अरुण और गरुड़ की माता है । जङ्घा न होने के कारण अरुण को 'अनूरु' कहा जाता है। वेदों में अरुण को ही 'उषा' का प्रतीक माना जाता है। अथ भगवान्निरणषीदित्याह
चयस्त्विषामित्यवधारितं पुरस्ततः शरीरीति विभाविताकृतिम् । विभुर्विभक्तावयवं पुमानिति क्रमादमुं नारद इत्यबोधि सः ॥३॥
चय इति ॥ विभुर्वस्तुतत्त्वावधारणसमर्थः स हरिः पुरा प्रथमं त्विषां चय इत्यवधारितं तेजःपुञ्जमात्रत्वेन विनिश्चितम् । ततः प्रत्यासन्ने विभाविता विमृष्टा आकृतिः संस्थानं यस्य तं तथोक्तम् । अत एव शरीरी चेतन इत्यवधारितम् । ततो विभक्ता विविच्य गृहीता अवयवा मुखादयो यस्य तं तथोक्तम् । अत एव पुमानित्यवधारितम् । अमुमागच्छन्तं व्यक्तिविशेषं नारदं, वास्तवाभिप्रायेणेति पुंलिङ्गनिर्वाहः। क्रमात्पूर्वोक्तसामान्य विशेषज्ञानक्रमेण । लोकदृष्टयदमुक्तम् , हरिस्तु सर्व वेदैवेति तत्त्वम् । नारद इत्यवोधि । नारदं बुद्धवानित्यर्थः। नारदस्य कर्मत्वेऽपि निपातशब्देनाभिहितत्वान्न द्वितीया, तिङामुपसंख्यानस्योपलक्षणत्वात् । यथाह वामनः-'निपातेनाभिहिते कर्मणि न कर्मविभक्तिः, परिगणनस्य प्रायिकत्वात् (का. सू. ५।२।२२) इति । बुध्यतेः कर्तरि लुङ् । 'दीपजन (३।१।६१)-' इत्यादिना चिण् । 'चिणो लुक्, (६।४।१०४) इति तस्य लुक् । अत्र विभाविताकृति विभक्तावयवमित्यादिना आकृतिविभावनावयव विभावनयोः पदार्थयौविशेषणवृत्त्या शरीरित्वपुंस्त्वावधारणहेतुत्वेनोपन्यासात्पदार्थहेतुकं काव्यलिङ्गमलङ्कारः । 'हेतोवाक्यपदार्थत्वे काव्यलिङ्गमुदाहृतम्' इति लक्षणात् ॥ ३ ॥