________________
प्रथमः सर्गः
३
आधार-स्वरूप ) तथा जगत् को शासित करने के लिये अर्थात् शिष्टों पर अनुग्रह करने और दुष्टों को दण्ड देने के लिए, वसुदेव जी के समृद्धिशाली ( या रुक्मिणी रूपिणी लक्ष्मी से युक्त ) घर में निवास करते हुए ( श्रीकृष्ण के रूप में अवतीर्ण ) विष्णु ने आकाश से उतरते हुए ब्रह्मा के अङ्ग से उत्पन्न (नारद) मुनि को देखा || १||
विशेष - भारतीय संस्कृति के अनुसार कविगण प्रन्थारम्भ के पूर्व अपने ग्रन्थ की निर्विघ्न समाप्ति के लिए अपने इष्ट देवता का स्मरण मङ्गलाचरण के रूप किया करते हैं । इसी परम्परा का पालन करते हुए कवि माघ ने यहाँ माङ्गलिक “श्री” शब्द से अपने काव्य-ग्रन्थ का आरम्भ करके "वस्तुनिर्देशात्मक” मङ्गलाचरण किया है ।
मल्लिनाथ लिखते हैं- "आशीराद्यन्यतमस्य प्रबन्ध-मुखलक्षणत्वाच्च काव्यफलं शिशुपालवधबीजभूतं भगवतः श्रीकृष्णस्य नारद-दर्शनरूपं वस्तु आदौ श्री. शब्द प्रयोगपूर्वकं निर्दिशन् कथामुपक्षिपति ।"
श्री वल्लभदेव लिखते हैं— "अभिलषितसिद्धयर्थं मङ्गलादि काव्यं कर्तव्यमिति स्मरणात्तु कविः "श्री" शब्दमादौ प्रयुङ्कते । ”
प्रसङ्ग - सर्वप्रथम भगवान् श्रीकृष्ण ने मुनि नारद को आकाश मार्ग से भूतल की ओर आते हुए देखा । तत्पश्चात् नगरवासी उन्हें विस्मयपूर्वक देखने लगे । तदानीं जनै विस्मयादीक्षितुं प्रवृत्तमित्याह
गतं तिरश्चीनमनूरुसारथेः प्रसिद्धमूर्ध्वज्वलनं हविर्भुजः । पतत्यधो धाम विसारि सर्वतः किमेतदित्याकुलमीक्षितं जनैः ॥ २ ॥ गतमिति ॥ अविद्यमानावूरू यस्य सोऽनूरुः स सारथिर्यस्य तस्यानुरुसारथेः सूर्यस्य गतं गतिः । भावे क्तः । तिरश्चीनं तिर्यग्भूतम् । 'विभाषाऽञ्चेर दिस्त्रियाम् ' (५।४।८) इति तिर्यक्शब्दादश्वत्यन्तात्प्रातिपदिकात्स्वार्थे खप्रत्ययः । हविर्भुजोऽग्नेरुर्वज्वलन मूर्ध्वस्फुरणं प्रसिद्धम् । इदं तु सर्वतो विसारि धामाऽधः पतति । किमेतदिति सूर्याग्निविलक्षणमदृष्टपूर्वमिदं धाम किमात्मकं स्यादित्याकुलं विस्मयात्संभ्रान्तं यथा तथा जनैरीक्षितमीक्षणं कृतम् । सकर्मकादप्यविवक्षिते कर्मणि भावे क्तः । ' प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया' इति वचनात् । केचित्कर्मणि क्तान्तं कृत्वा ईक्षितं मुनि ददर्शेति पूर्वेण योजयन्ति । अत्रोपमेयस्य मुनिधाम्नः सूर्याग्निभ्यामुपमानाभ्यामधः प्रसरणधर्मेणाधिक्य वर्णनाद्व्यतिरेकः । तदुक्तं काव्यप्रकाशे'उपमानाद्यदन्यस्य व्यतिरेकः स एव सः' इति । 'धाम रश्मौ गृहे देहे स्थाने जन्मप्रभावयोः' इति हेमचन्द्रः । दिवाकरस्तु वृत्तरत्नाकरटीकायां प्रथमपठितेन 'द्विधाकृतात्मा किमयं दिवाकरो विधूमरोचिः किमयं हुताशनः' इति चरणद्वयेन