________________
शिशुपालवधम् अथ तत्रभवान्माघकविः
'काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये ।
सद्यः परनिर्वृतये कान्तासंमिततयोपदेशयुजे' ॥ (का. प्र. ११२) इत्यालङ्कारिकवचनप्रामाण्यात्काव्यस्यानेकश्रेयःसाधमतां, 'काव्यालापांश्च वर्जयेत्' इति निषेधस्यासत्काव्यविषयतां च पश्यच्छिशुपालवधाख्यं काव्यं चिकीर्षु श्चिकोषितार्थाविध्नपरिसमाप्ति संप्रदायाविच्छेदलक्षणफलसाधनत्वात् 'आशीर्नमस्क्रियावस्तुनिर्देशो वापि तन्मुखम्' इत्याशीराद्यन्यतमस्य प्रबन्धमुखलक्षणत्वाच्च काव्यफलं शिशुपालवधबीजभूतं भगवतः श्रीकृष्णस्य नारददर्शनरूपं वस्तु आदौ श्रीशब्दप्रयोगपूर्वकं निदिशन् कथामुपक्षिपतिश्रियः पतिः श्रीमति शासितुं जगजगन्निवासो वसुदेवसम्मनि । वसन् ददर्शावतरम्तमम्बराद्धिरण्यगर्भागभुवं मुनिं हरिः ॥१॥ श्रिय इति ॥ तत्रादौ श्रीशब्दप्रयोगाद्वर्णगणादिशुद्धेरभ्युच्चयः । तदुक्तम् -
____ 'देवतावाचकाः शब्दा ये च भद्रा दिवाचकाः ।
ते सर्वे नव निन्द्याः स्युलिपितो गणतोऽपि वा' । इति । श्रियो लक्ष्म्याः पतिः । अनेन रुक्मणीरुपया श्रिया समेत इति सूचितम् । राघवत्वेऽभवत्सीता रुक्मिणी कृष्णजन्मनि' इति विष्णुपुराणात् । जगन्निवासो जगतामाधारभूतः । कुक्षिस्थाखिलभुवन इति यावत् । तथापि जगत् लोकं शासितुं दुष्टनिग्रहशिष्टानुग्रहाभ्यां नियन्तुं श्रीमति लक्ष्मीयुक्तं वसुदेवसद्मनि सुदेवरूपिणः कश्यपस्य वेश्मनि वसन् कृष्णरूपेण तिष्ठन् हरिविष्णुरम्बारदवतरन्तम् । इन्द्रसन्देशकथनार्थ मिति भावः । हिरण्यस्य गर्भो हिरण्यगर्भो ब्रह्मा ब्रह्माण्डप्रभवत्वात्, तस्याङ्गभुवं तनूजम् । अथ वा तस्याङ्गादवयवादुत्समाख्याद्भवतीति हिरण्यगर्भाङ्गभूस्तं मुनिम् । नारदमित्यर्थः । 'उत्सङ्गान्नारदो जज्ञे दक्षोऽङ्गुष्ठात्स्वयंभुव" इति भागवतात् । ददर्श । कदाचिदिति शेषः । अत्राल्पीयसि वसुदेवसपनि सकलजगदाश्रयतया महीयसो हरेराधेयत्वकथनादधिक प्रभेदोऽर्थालङ्कारः। तदुक्तम् –'आधाराधेययोरानुरूप्याभावोऽधिको मतः' इति । जगन्निवासस्य जगदेकदेशनिवासित्व मिति विरोधश्च । तथा तकारसकारादेः केवलस्यासकृदावृत्या जगज्जगदिति सकृव्यञ्जनद्वयसादृश्याच्च वृत्त्यनुप्रासभेदी शब्दालङ्कारी । एषां चान्योन्यनरपेक्ष्येणकत्र समावेशात् तिलतण्डुलवत्संसृष्टिः । सर्गेऽस्मिन्वंशस्थं-वृत्तम् । 'जतौ तु वंशस्थमुदीरितं जरौ' इति लक्षणात् ॥ १ ॥
अन्वयः-श्रियः पतिः जगन्निवासः जगत शासितुं श्रीमति वसुदेवसद्मनि बसन् हरिः अम्बरात् अवतरन्तं हिरण्यगर्भाङ्गभुवं मुनिं ददर्श ॥ ५ ॥
हिन्दी अनुबाद-लपमी के पति, जगत् के निवासस्थान ( या जगत् के