________________
प्रथमः सर्गः अन्वयः-विभुः सः पुरा विषां चय इति अवधारितम् । ततः विभाविताकृति शरीरी इति, विभक्तावयवं पुमान् इति, क्रमात् अमुं नारद इति अबोधि ॥ ३ ॥
हिन्दी अनुवाद-प्रसङ्ग-लोगों के द्वारा आकाश से भूतल की ओर आने वाले तेज को व्याकुलता पूर्वक देखे जाने पर भगवान् कृष्ण ने उसे क्रमशः यह नारद है समझा।
संसार के समस्त वस्तुतत्व के ज्ञाता भगवान् श्रीकृष्ण ने पहले उसे (आकाश से भूतल की ओर आने वाले तेज को ) तेजों का समूह समझा, तत्पश्चात् आकृति का ( हस्तपादादि का ) निश्चय होने पर उसे ( तेज को) देहधारी ( समझा ) और (हस्तपादादि ) अवयवों के स्पष्टरूप से दिखलाई देने पर-'यह पुरुष है' ऐसा समझा और इस प्रकार क्रम से उसे 'यह नारद है' ऐसा जाना ॥ ३ ॥ अथ सप्तभिर्मुनि विशिन ष्टि
नवानधोऽधो बृहतः पयोधरान् समूढकर्पूरपरागपाण्डुरम् । क्षणं क्षणोत्क्षिप्तगजेन्द्रकृत्तिना स्फुटोपमं भूतिसितेन शम्भुना ॥ ४॥
नवानिति॥ कीदृश ममुम् । नवान् सद्यःसंभृतसलिलान् । अतिनीलानिति यावत् । बृहतो विपुलान् पयोधरान् मेघानधोऽधः मेघानां समीपाधःप्रदेशे । स्थितमिति शेषः । 'उपर्यध्यधसः सामीप्ये' (८।२।७) इति द्विर्भावः, तद्योगे द्वितीया । 'उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु' इत्यादिवचनात् । समूढः पुजीकृतः । 'समूढः पुञ्जिते भुग्ने' इति विश्वः। कर्पूरस्य परागश्चूर्णं तद्वत्पाण्डुरम् । अतः एव क्षणं मेघसमीपावस्थानक्षणे । अत्यन्तसंयोगे द्वितीया । क्षणेषु ताण्डवोत्सवेषु । 'निापारस्थितौ कालविशेषोत्सवयोः क्षणः' इत्युभयत्राप्यमरः । उत्क्षिप्ता उपरि धारिता गजेन्द्रस्य कृत्तिश्चर्म येन तेन । 'अजिनं चर्म कृत्तिः स्त्री' इत्यमरः। भूत्या भस्मना सितेन । 'भूतिर्भस्मनि सम्पदि' इत्यमरः। शम्भुना स्फुटा उपमा सादृश्य यस्य तं स्फुटोपमम् । स्फुटशम्भूपममित्यर्थः । सापेक्षत्वेऽपि गमकत्वात्समासः । सदृशपर्याययोस्तुलोपमाशब्दयोः 'अतुलोपमाभ्याम्-'इति निषेधात्सादृश्यवाचित्वें तृतीयेत्याहुः । केचिदिमं श्लोकं चयस्त्विषामित्यतः प्राग्लिखित्वा व्याचक्षते । तेषां पुंस्त्वावधारणात्प्राक् तेजःपिण्डमात्रस्य शम्भूपमौचित्यं चिन्त्यम् ।। ४ ।।
अन्वय-नवान् बृहतः पयोधरान् अधोऽधः ( स्थितं) समूठकर्पूरपरागपाण्डुरम्-क्षण-क्षणोक्षिप्तगजेन्द्रकृत्तिना भूतिसितेन शम्भुना स्फुटोपमम् ( अमुं नारद इत्यबोधि ) ॥ ४॥
प्रसङ्ग-इस श्लोक-(१।४-१०) से सात श्लोकों तक (श्लोक १० तक) महर्षि नारद का वर्णन किया गया है। सर्वप्रथस उनकी उपमा शिव से दी गई है