________________
द्वितीयः सर्गः
१४७ सहजेति ॥ सहजं स्वाभाविकं चापलं दुविनीतत्वम् अनवस्थितत्वं च । 'चपलः पारदे शीघ्र दुविनीतेऽनवस्थिते' इति वैजयन्ती । तेन व दोषेण समुद्धतो दृप्तः पक्षः सहायो गरुच्च । 'पक्षः पार्श्वगरुत्साध्यसहायबलभित्तिषु' इति वैजयन्ती । चलितोऽस्थिरो दुर्वलपक्षपरिग्रहो यस्य सः असुहृद्गणः शत्रु वर्गस्तव दुरासदवीयविभावमो दुःसहते जोवनी 'वीयं शुक्रे प्रभावे च तेजःसामर्थ्ययोरपि' 'सूर्यवह्नी विभावसू' इति विश्वामरौ । शलभतां पतङ्गत्वम् । 'समौ पतङ्गशलभौ' इत्यमरः। भावे तल । लभतां गच्छतु । रूपकालङ्कारः । द्रुतविलम्बितं वृत्तम् ॥ ११७ ॥ ___ अन्वयः-( हे कृष्ण !) सहजचापलदोषसमुद्धतः चलितदुर्बलपक्षपरिग्रहः असुहृद्गणः तव दुगसदवीर्यविभावसौ शलभतां लभताम् ।। ११७ ।।
हिन्दी अनुवाद-हे कृष्ण ! अपनी नैसर्गिक चञ्चलता से उन्मत्त और दुर्बल सहायकोंवाला शत्रपक्ष आपके दुःसहप्रतापरूप अग्नि में पतङ्गों की तरह भस्म हो जाय । प्रकृत श्लोक में रूपकालङ्कार है, एवं 'द्रुतविलम्बित' छन्द है ।। ११७ ॥
प्रसङ्ग-यहाँ महाकविमाघ उद्धव की वाणी की विशेषताओं नथा तज्जन्य श्रीकृष्ण की प्रसन्नता का उल्लेख करते हैं
इति विशकलितार्थामौद्धधीं वाचमेना
___मनुगतनयमार्गामर्गलां दुर्नयस्य । जनितमुदमुदस्थादुच्चकैरुच्छ्रितोरः
स्थलनियनिषष्णश्रीश्रुतां शुश्रुवान् सः॥१८॥ इतीति ॥ स हरिरित्थं विशकलितार्था विवेचितार्थामनुगतनयमार्गी नीतिमार्गानुसारिणी दुर्नयस्य बलभद्रायुक्तस्येत्यर्थः । अर्गलां निवारयित्रीमिति वैधयेण रूपकालङ्कारः । 'तद्विष्कम्भोऽर्गलं न ना' इत्यमरः । अत एव जनितमुदं हरेः कृतानन्दाम उच्छ्रिते उन्नते उरःस्थले नियतं निषण्णया अविश्रान्तमाश्रितया श्रिया श्रुतां नान्ययेति मन्त्रगुप्तिः । उद्धवस्येमामौद्धवीमेनां पूर्वोक्तां वाचं : श्रुवाञ्श्रुतवान् । 'भाषायां सदवसश्रुवः' (३।२।१०८) इति क्वसुः । उच्चरेवोच्चकै रुन्नतः सन् । 'अव्ययसर्वनाम्नामकच्प्राक्टेः' (५।३।७१) इत्यकच्प्रत्ययः । उदस्थादासनादुत्थितवान् । 'उदोऽनूर्वकर्मणि इत्यस्य' प्रत्युदाहरणमेतत् । रूपकानुप्रासालङ्कारी। मालिनी वृत्तम् ॥ ११८ ॥ इति श्रीमहोपाध्ययकोलाचलमल्लिनाथसूरिविरचिते शिशुपालवधव्याख्याने
सर्वकषाख्ये द्वितीयः सर्गः ॥ २॥
-