________________
द्वितोया सर्गः
१४३ रक्षक, १८-प्रियभृत्य । इनको अपनी ओर मिला देने से शत्रु शोघ्र ही यश में हो जाता है। महाकवि भारवि ने उक्त भाव को 'किरातार्जुनीयम' में इस प्रकार कहा है
"विषमोऽपि विगाह्यते नयः कृततीर्थः पयसामिवाशयः ।।
स तु तत्र बिशेषदुर्लभः सदुपन्यस्यति कृत्यवर्मयः” (२।३) ॥१११॥ प्रसन-यहाँ राजनीति में गुप्तचरों के महत्व पर प्रकाश डाला गया है-- आवश्यकं चैतदित्याह
अनुत्सूत्रपदन्यासासवृत्तिः सन्नियन्धना।
शन्दविद्येव नो भाति राजनीतिरपस्पशा ।। ११२ ॥ अनुत्सूत्रेति ॥ उत्सूत्र उच्छास्त्र नीतिशास्त्रविरुद्धः पदन्यासः एकपदप्रक्षेपो. ऽपि । स्वरूपव्यवहारोऽपोति यावद । नास्ति यस्यां साऽनुत्सूत्र पदन्यासा । नीतिपूर्वकसवंव्यवहारत्यर्थः । अन्यत्रानुत्सूत्रपदम्यासा अनुत्सृष्ट सूत्राक्षर: इष्ट्युपसङ्ख्या. ननरपेक्ष्येण सूत्राक्षररेव सर्वार्थप्रतिपादको न्यासो वत्तिव्याख्यानग्रन्थ विशेषो यस्या सा तथोक्ता । तथा सती यथार्थ कल्पनया शोभना वृत्तिभृत्यामात्यादीनामाजीविका यस्यां सा सवत्तिः, अन्यत्र सतो वृत्तिः काशिकाख्यसूत्रव्याख्यान ग्रायविशेषो यस्यां सा ! 'वत्तिर्ग्रन्थजीवनयोः' इति वैजयन्ती। सन्ति निबन्धनान्यनुजीव्यादीनां क्रियावसानेषु दत्तानि गोहिरण्यादिशाश्वतपारितोषिकदानानि यस्यां सा। एतच्च 'दत्त्वा भूमिनिबन्ध चे'त्येतद्वचनव्याख्याने मिताक्षरायां द्रष्टव्यम् । अन्यत्र सरिन बन्धनं भाष्यग्रन्थो यस्यां सा। एवंभूतापि राजनीती राजवृत्तिः। अपगतः स्पशः चारो यस्याः साऽपस्पशा चेत् । 'यथार्थवर्णो मर्मज्ञः स्पशो हरक उच्यते' इति हलायधः । अन्यत्र अविद्यमानः पस्पशः शास्त्रारम्भसमथक उपोद्घातसन्दर्भग्रन्थो यस्याः स: अपस्पशः । शब्दविद्या व्याकरणवियेव नो भाति न शोभते । तस्मा. च्चरप्रेषणमावश्यकम् , द्रहितस्य राज्ञोऽग्धप्रायत्वादिति भावः । अत्र पस्पशेत्यत्र जतुकाष्ठवच्छन्दयोरेव श्लिष्टत्वाच्छन्दश्लेषः । सद्वत्तिः सन्निबन्धनेत्यत्रकवन्तावलम्बिफलद्वयवदर्थश्लेषः । अनुत्सूत्रपदण्यासेत्यत्र तूभयसम्भवादुमयश्लेषः । शब्दविद्ये वेति पूर्णोपमा व्यक्तव । तयोः सापेक्षत्वात्सङ्करः ।। ११२ ।।
अन्धयः - अनुरसूत्रपदन्यासा सद्वृत्तिः सनिबन्धना राजनीतिः, अपस्पशा शब्दविद्या इव नो भाति ।। ११२ ॥
हिन्दी अनुवाद - राजनीति के कथित या निर्धारित नियम के विरुद्ध एक पद भी जिसमें नहीं रक्खा जाता हो, ( अर्थात् जहाँ नीतिशास्त्रानुकूल ही सब काम किये जाते हैं ) राजकार्य सम्पादित करनेवालों के लिये जिसमें उत्तम तथा कार्य की