________________
१३२
शिशुपालवधम
न चाय मे काको फि नः करिष्यतीति मन्तव्यमित्याह
मा वेदि यदसावेको जेतम्यश्चेदिराहिति ।
राजयक्ष्मेव रोगाणां समूहः स महीभृताम् ॥ ९६ ॥ मा वेदीति ।। असौ चेदिराट् एकः एकाकी अतो जेतव्यः सुजय इति मा वेदि मा ज्ञायि । वेत्तेः कर्मणि माङि लुङ् । यन् यस्मात्स चेदिराट् , राज्ञश्चन्द्रस्य यक्ष्माराजा चासो यक्ष्मेति वा राजयक्ष्मा क्षयरोगो रोगाणामिव महीभृता समूहः समष्टिरूपः । यथाह वाग्भट:
अनेक रोगानुगतो बहु रोगपुर:सरः । राजयक्ष्मा क्षयः शोषो रोगराडिति च स्मृतः ॥ नक्षत्राणां द्विजानां च राज्ञोऽभूद्यदयं पुरा।
यच्च राजा च यक्ष्मा च राजयक्ष्मा ततो मतः ॥' (नि. स्था० अ० ५) इति । अतो दुर्जय इति भावः । एतेन 'चिरस्य मित्रव्यसनी सुदमो दमघोषजः' (२०६०) इति निरस्तम् ।। ६६ ।।
अन्वयः- हे कृष्ण !! असौ चेदिराट एकः "अतः" जेतव्य इति मा वेदि, यत् सः रोगागाम् “मध्ये" राजगचमा इव महीभतां समूहः ।। ९६ ॥
हिन्दी अनुवाद-हे कृष्ण ! यह चेदिनरेश ( शिशुपाल) अकेला है, ( अतः इसे ) जीतना सरल है, यह न समझें, क्योंकि शिशुपाल राजाओं का समूह है, जैसे रोगों का समूह राजयचमा ( होता है।) ।। ९६ ॥ ( अतः यह दुर्जय है।)
विशेष-जिस प्रकार ज्वर, खाँसी, रक्तपित्तादि जन्य अनेक रोगों के समूह का नाम राजयचमा है, उसी प्रकार शिशुपाल अनेक राजाओं का समूह है । वाग्भट्टने कहा है
अनेकरोगानुगतो बहुरोगपुरःसरः । राजयचमा क्षयः शोषो रोगरादिति च स्मृतः ॥ नक्षत्राणां द्विजानां च राज्ञोऽभूद्यदयं पुरा । यच्च राजा च यदमा च राजयक्ष्मा ततो मतः ।।
(नि. स्था. अ. ५) ॥ ९६ ॥ प्रसन्न-प्रस्तुत श्लोक में उद्धवजी शिशुपाल के द्वारा उपकृत बाणासुर के विषय में कहते हैंअथास्य सर्व राजसमप्टितामेव द्वाभ्यां व्याचष्टे
सम्पादितफलस्तेन सपक्षः परभेदतः ।
कार्मुकेणेव गुणिना बाणः सन्धानमेष्यति ॥९७ ॥ १. परभेदनः ।