________________
११२
शिशुपालवधम् एक बात तय (निश्चितः) हो चुकी, तो अब पुनः उस विषय में मेरा कुछ कहना व्यर्थ ही है । ) प्रस्तुत श्लोक में दृष्टान्त व व्याजस्तुति अलङ्कार है ।। ७० ॥
प्रसङ्ग-उद्धवजी श्रीकृष्ण को कहते हैं कि मेरे प्रति आपका आदर मुझे कुछ कहने के लिये प्रेरित कर रहा है, अतः मैं अपने विचार व्यक्त करता हूँतहि किं तूष्णीभूतेन भाव्यं नेत्याह
तथापि यन्मय्यपि ते गुरुरित्येष' गौरवम् ।
तत्प्रयोजककतृत्वमुपैति मम जल्पतः ॥ ७१ ॥ तथापीति ॥ तथापि बलेन निर्णीतेऽपि ते तव मय्यपि । बलभद्र इवेत्यपिशब्दार्थः। गुरुरित्येव यत्तगौरवमादरः यद्गौरवं जल्पतः जल्पने प्रयोज्यकर्मणो मे प्रयोजककर्तृत्वं प्रेरकत्वमुपैति । अतो वक्ष्यामीत्यर्थः । न हि पण्डितः सादरं पृष्टस्य विशेषज्ञस्याऽज्ञवत्तूष्णींभावो युक्त इति भावः ॥ ७१ ॥
अन्वयः-(हे कृष्ण !) तथापि ते मयि अपि गुरुः इति यत् गौरवम् अस्ति तत्. जल्पतः मम प्रयोजककर्तृत्वम् उपैति ॥ ७१ ॥
हिन्दी अनुवाद-हे कृष्ण ! फिर भी आपकी हमारे प्रति गुरु जैसी जो श्रद्धा हैं, उसीसे प्रेरित होकर मैं कुछ कहता हूँ ॥ ७१ ।।
प्रसङ्ग-श्री उद्धवजी कहना प्रारम्भ करते हैं -
ननु रामेणव सर्वं प्रपञ्चेनोक्तम्, सम्प्रति किं ते वाच्यमस्तीत्याशक्य वृथा प्रपञ्चोऽयमिति हृदि निधाय स्तुवन्नाह त्रयेण
वर्णैः कतिपयैरेव ग्रथितस्य स्वरैरिव ।
अनन्ता वाड्मयस्याहो ! गेयस्येव विचित्रता ॥७२॥ वर्णैरिति । कतिपयः परिमितर्वर्गः पञ्चाशतव मातृकाक्षरः, कतिपयः सप्तभिरेव स्वरैदिषादादिभिर्ग्रथितस्य गुम्फितस्य वाङ्मयस्य शब्दजालस्य । 'एका. चोऽपि नित्यं मण्टमिच्छन्ति' इति स्वार्थे मयट् । गीयत इति गेयं तस्य गानस्येव विचित्रता रचनाभेदादनन्ता आरमिता भवतीत्यर्थः। अहो ! अतस्तेन साधूक्तेऽपि विशेषानन्त्यान्ममापि वक्तव्यमस्तीत्येको भावः। तस्य दुरुक्तत्वान्ममैवास्तीत्यन्यः । प्रत्यवयवमिवोपादानादनेकवेयमुपमा ॥ ७२ ॥
अन्वयः-कतिपयैः एव वर्णैः स्वरैः इव ग्रथितस्य वाङ्मयस्य गेयस्य इव विचित्रता अनन्ता अहो ।। ७२ ।।
हिन्दी अनुवाद-कुछ अर्थात् परिमित (सात) स्वरों (निषाद, ऋषभ आदि) १. रित्यस्ति ।