________________
द्वितीयः सर्गः
१११ अग्रे पुरत इति प्रागल्भ्योक्तिः, उतथ्यस्य महर्षेरनुजो वृहस्पतिः। 'उतथ्यावरजो जीवः' इति विश्वः । तद्वत्तेन तुल्यं जगाद । 'तेन तुल्यं क्रिया चेद्वतिः' (२१११११) इति वतिः । तद्धितगेयमुपमा ॥ ६६ ॥
अन्वयः-अथ उद्धवः आहितभरां तथ्यां भारतीम् अनुद्धतं गदाग्रजम् अग्रे उतथ्यानुजवत् जगाद ॥ ६९ ॥
हिन्दी अनुवाद-इस (श्रीकृष्ण के द्वारा बोलने के लिये संकेत प्राप्त होने) के पश्चात् श्रीउद्धव अपनी अर्थपूर्ण यथार्थ वाणी को नम्रभाव से श्रीकृष्ण के सामने बृहस्पति के समान गम्भीर भाव से बोले, प्रकृत श्लोक में उपमालङ्कार है ॥ ६९ ॥
प्रसङ्ग-उद्धवजी कहते हैं कि बलराम जी के द्वारा विचार प्रकट किये जाने के पश्चात् अब कुछ कहना उचित नहीं है। किं जगादेत्याहु
सम्प्रत्यसाम्प्रतं वकुमुक्के मुसलपाणिना ॥ निर्धारितेऽर्थे लेखेन खलूक्त्वा खलु वाचिकम् ।। ७०॥ सम्प्रतीति ॥ सम्प्रति मुसलपाणिना बलभद्रेण । केवलं शूरेणेति ध्वनिः । उक्ते सति वक्तुमसाम्प्रतमयुक्तम् । साधूक्तत्वादभ्याससमानयोगक्षेमप्रसङ्गादिति ध्वनिः । साम्प्रतशब्दस्यार्थित्वात्तद्योगे 'शकधृष' ( २।४।७५) इत्यादिना तुमुन् । तथा हि लेख्येन पत्रेणार्थे वाच्ये निर्धारिते निर्णीते सति वाचिकं व्याहृतार्थी वाचम । सन्देशवचनमित्यर्थः । 'सन्देशवाग्वाचिकं स्यात्' इत्यमरः। 'वाचो व्याहृतार्थायाम' (५।४।३५ ) इति ठक् । उक्त्वा खलु । न वाच्य खल्वित्यर्थः। खलुराद्यः प्रतिषेधे, अन्यो वाक्यालङ्कारे । 'निषेधवाक्यालङ्कारे जिज्ञासानुनये खलु' इत्युभयत्राप्यमरः। 'अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा' ( ३।४।१८ ) इति क्त्वाप्रत्ययः। इह न पादादौ खल्वादय इति निषेधस्योद्वेजकाभिप्रायत्वात् नबर्थखलुशब्दस्यानुद्वेजकत्वात नवदेव पादादी प्रयोगो न दुष्यत्यनुसन्धेयम् लिखितार्थे वाचिकमिव बलोक्ते मदुक्तिरनवकाशेति वाक्यार्थप्रतिबिम्बकरणात् स्पष्टस्तावद् दृष्टान्तः । स्तुतिव्याजेन निन्दावगमाद् व्याजस्तुतिन । लक्षणं चाग्रे वक्ष्यते ॥ ७० ॥
अन्वयः-सम्प्रति मुसलपाणिना उक्त (सति ) वक्तुम् असाम्प्रतम्, लेखेन अर्थ निर्धारिते सति वाचिकं खलु उक्त्वा खलु ॥ ७० ॥
हिन्दी में अनुवाद-(उद्धवजी ने कहा कि -) बलराम जी के बोलने पर अब बोलना ( अपने विचार प्रकट करना ) उचित नहीं है। जैसे, लेख द्वारा विषय निर्णीत हो जानेपर मौखिक वचन कहना व्यर्थ होता है।
(अर्थात् लेख द्वारा एक बात पक्की निश्चित हो जानेपर केवल सूखा-सूखा जवानी जमाखर्च, जैसे व्यर्थ होता है, इसी तरह बलराम के कहने के पश्चात् जव