________________
११०
शिशुपालवधम् इति संरम्मिणो वाणीबलस्यालेख्यदेवताः ।
सभाभित्तिप्रतिध्वानेभेयादन्ववदन्निव ॥६७ ॥ __ इतीति । इतीस्थ संरम्भिणः क्षुभितस्य बलभद्रस्य वाणीरालेख्यदेवताश्चित्रलिखितदेवताः सभाया सदोगृहस्य भित्तीनां प्रतिध्वानः । प्रतिध्वनिव्याजेनेत्यर्थः । भयादन्ववदन्नन्वमोदयनिवेत्युत्प्रेक्षा ॥ ६७ ॥ __ अन्वयः-इति संरम्भिणः बलस्य वाणीः आलेख्यदेवताः सभाभित्तिप्रतिध्वानैः भयात् अन्ववदन् इव ॥ ६७ ॥
हिन्दी अनुवाद-इस प्रकार सुन्ध बलराम की वाणी समाप्त होनेपर सभाभित्ति में चित्रलिखित देवताओं ने भी भयभीत होकर सभाभवन की प्रतिध्वनि के व्याज से मानों उनकी बातों का समर्थन किया, प्रस्तुत श्लोक में उत्प्रेक्षालङ्कार है ॥६॥
प्रसन-प्रस्तुत श्लोक में श्रीकृष्ण, बलराम जी के विचार सुनने के पश्चात् उद्धवजी को अपने विचार प्रकट करने के लिए संकेत करते हैं
निशम्य ताः शेषगवीरभिधातुमधोक्षजः ।
शिष्याय बृहतां पत्युःप्रस्तावमदिशद् दशा ।। ६८॥ निशम्येति ॥ अधः कृतमक्षजमिन्द्रियजं ज्ञानं येन सोऽधोक्षजो हरिः ताः शेषस्य शेषावतारस्य बलभद्रस्य गाः वाचः शेषगवीः। 'गोरतद्धितलुकि' (२४६२) इति टच । टित्वान्डीप् । निशम्य श्रुत्वा । 'निशाम्यतीति श्रवणे तथा निशमयत्यपि' इति भट्टमल्लः। तत्र शाम्यतेरिदं रूपम् । अन्यथा निशमय्येति स्यात् । अत एव वामनः-'निशम्यनिश मय्यशब्दो प्रकृतिभेदात्' इति । बृहतां वाचां पत्युर्वृहस्पतेस्तस्य शिष्यायोद्धवायाभिधातुं वक्तुं दृशा दृक्संज्ञया प्रस्तावमवसरमदिशदतिसृष्टवान् । 'प्रस्तावः स्यादवसरः' इत्यमरः ॥ ६८ ॥ __ अन्वयः--अधोक्षजः ताः शेषगवीः निशम्य बृहतां पत्युः शिष्याय अभिधातुं दृशा प्रस्तावम् अदिशत् ।। ६८ ॥
हिन्दी अनुवाद-श्रीकृष्ण ने उपर्युक्त बलराम जी की वाणी ( २१२२-६६) सुनकर बृहस्पति के शिष्य उद्धवजी को कहने के लिये (शिशुपालपर आक्रमण विषयक विचार ) नेत्रों से संकेत किया ॥१८॥ प्रसङ्ग--प्रस्तुत श्लोक में उद्धवजी अपने विचार प्रकट करते हैं
भारतीमाहितभरामथाऽनुद्धतमुद्धवः।
तथ्यामुतथ्यानुजवजगादाऽग्रे गदाग्रजम् ॥ ६९ ॥ भारतीमिति ॥ अथ कृष्णानुज्ञानन्तर मुद्धवः आहितो भरोऽर्थगौरवं यस्यां सा तां तथ्यां यथार्थी भारती वाचम् । अनुद्धतमवितं यथा तया गदस्याग्रज कृष्णम् ।