________________
९८
शिशुपालवधम्
हिमांशुं चन्द्रमाशु शीघ्र प्रसते गिलतीति यत् । ' ग्रसिते गिलितं गीर्णम्' इत्यभिधानात् । तन्म्रदिम्नो मार्दवस्य फलं स्फुटम् । 'पृथ्वादिभ्य इमनिच्' (५।१।१२२) इतीमनिच्प्रत्ययः । तस्माद्विपक्षे तीव्रेण भवितव्यम्, अन्यथा मृदुः सर्वत्र बाध्यते इति भावः । एतच्च प्रस्तुतमप्रस्तुतार्केन्दुकथनेन सारूप्यात्प्रतीयते इत्यप्रस्तुतप्रशंसाभेदोऽयम् ॥ ४ε॥
'अप्रस्तुतस्य कथनात्प्रस्तुतं यत्र गम्यते । प्रस्तुतप्रशंसेयं सारूप्याद्विनियन्त्रिता' ॥
इतिलक्षणात् ॥ ४६ ॥
अन्वय-स्वर्भानुः अपराधे तुझ्ये 'अपि' भानुमन्तं चिरेण हिमांशुं 'च' आशु ग्रसते (इति) यत् तत् प्रदिग्नः फलं स्फुटम् एव ॥ ४९ ॥
हिन्दी अनुवाद - समान अपराध होने पर भी राहु सूर्य को विलम्ब से तथा चन्द्रमा को जो शीघ्र प्रसता है, वह कोमलता ( शान्त रहने ) का स्पष्ट फल है, यहाँ 'अप्रस्तुतप्रशंसा' अलङ्कार है | ॥ ४९ ॥
प्रसङ्ग - प्रस्तुत श्लोक में दुर्बलता का अन्य उदाहरण प्रस्तुत किया गया है। एतदेव भङ्गयन्तरेणाह
स्वयं प्रणमतेऽल्पेऽपि परवायावुपेयुषि ।
निदर्शनमसाराणां लघुर्बहुतृणं नरः ॥ ५० ॥
स्वयमिति ॥ असाराणां दुर्बलानां निदर्शनं दृष्टान्तः । अत एव ईषदसमाप्तं तृणं बहुतृणम् । तृणकल्पमित्यर्थः । 'विभाषा सुपो बहुच्पुरस्तात् -' (३२६८) इति वहुच्प्रत्ययः प्रकृतेः पूर्वं च भवति । 'स्थादीषदसमाप्तौ तु बहुच्प्रकृतिलिङ्गके' इति वचनात्प्रकृतिलिङ्गता । लघुनिष्पौरुषो नरोऽल्पेऽपि परो वायुरिवेत्युपमितसमासः । बहुतृणमिति । स्पष्टोपमासाहचर्य त्किल्पब्देश्यदेशीयदेश्यादीति ( २२६० ) दण्डिना कल्पवादीनामौपम्यवाचकेष्वभिधानात् । तस्मिन्नुपेयुषि प्राप्ते सति स्वयं प्रणमते स्त्रयमेव प्रह्वीभवति । ‘कर्मवत्कर्मणा तुल्यक्रियः' ( ३|११८७ ) इति कर्मवद्भावात् 'भावकर्मणोः' (१।५।१३ ) इत्यात्मनेपदम् । न दुहस्नुनमां यक्चिणी' ( ३1१1=६ ) इति यप्रतिषेधः । दायुना तृणमिवाल्पीयसापि रिपुणा लघुरक्लेशेन परिभूयत इत्यर्थः । उपमालङ्कारः ॥ ५० ॥
अन्वयः - असाराणां निदर्शनं बहुतृणं लघुः, (यः) नरः अल्पे अपि परवायौ उपेयुषि स्वयं प्रणमते ॥ ५० ॥
हिन्दी अनुवाद - दुर्बलों का ( सबसे बड़ा ) उदाहरण तृण के समान पौरुषहीन मनुष्य है, जो नाममात्र की भी शत्रुरूपी हवा के बहने पर शीघ्र शुक जाता है ।। ५० ।।