________________
द्वितीयः सर्गः
जाते हैं, वे तृण
( अर्थात् निःसार तृण मन्दहवा के चलने पर भी झुक जाते हैं। इसी प्रकार ai ( पौरुषहीन ) पुरुष छोटे शत्रु के भा जानेपर भी स्वयं ही झुक के समान निःसार पदार्थों के उदाहरण है, यहाँ उपमालङ्कार है ॥ ) प्रसङ्ग - प्रस्तुत श्लोक में बलराम जी बीरस्व का गुण बतलाते हैं ।
पुन: पौरुषे गुणमाह
----
तेजस्विमध्ये तेजस्वी दवीयानपि गण्यते ।
पञ्चमः पञ्चतपसस्तपनो जातवेदसाम् ॥ ५१ ॥
तेजस्वीति ॥ दवीयानपि दूरस्थोऽपि । 'स्थूलदूर - ' ( ६।४।१५६ ) इत्यादिना पूर्वगुणयणादिपरलोपौ । तेजस्वी तेजस्विनां मध्ये गण्यते संख्यायते । तथा हिपञ्चाग्रिसाध्यं तपो यस्य स तथा तस्य पञ्चतपसः पञ्चाग्निमध्ये तपस्यतः तपनोऽर्को जातवेदसामग्नीनां पञ्चमः पञ्चानां पूरणः । पञ्चमो जातवेदा भवतीत्यर्थः । विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः ॥ ५१ ॥
C
अन्वय - दवीयान् अपि तेजस्वी तेजस्विमध्ये गण्यते, पञ्चतपसः तपनः जातवेदसां पञ्चमः ॥ ५१ ॥
हिन्दी अनुवाद - अत्यन्त दूर रहने वाला भी तेजस्वी पुरुष तेजस्वियों में गिना जाता है, ( जिस प्रकार ) पञ्चाग्नि-साधन करने वालों के लिये ( दूरस्थ ) सूर्य भी पांच अग्नियों में गिना जाता है, अर्थात् तेजस्वियों की सर्वत्र मान्यता होती है । प्रस्तुत श्लोक में अर्थान्तरन्यास अलङ्कार है | ॥ ५१ ॥
प्रसङ्ग - बलराम जी कहते हैं कि कीर्ति को चाहने वाले व्यक्ति को पुरुषार्थं का अवलम्बन करना चाहिये ।
गुणान्तरं च व्यतिरेकेणाह -
कृत्वा हेलया पादमुच्चैर्मूर्धसु विद्विषाम् । कथंकारमनालम्बा कीर्तिर्द्यामधिरोहति ॥ ५२ ॥
अकृत्वेति ॥ उच्चैरुन्नतेषु विद्विषां मूर्धषु हेलया पादमकृत्वा अनिधाय । 'अन पूर्वे' इति निषेधात्समासेऽपि न ल्यवादेशः । कीर्तिः कथंकारम् । कथमित्यर्थः । 'अन्यथैवं कथमित्थंसु सिद्धाप्रयोगश्चेत् ' - ( ३।४।२७ ) इत्यनर्थंकादेव करोतेः कथंपूर्वाणमुल् । अनालम्बा निराधारा कीर्तिद्य दिवमधिरोहति । न कथञ्चिदित्यर्थः । किञ्चिन्निःश्रेण्यादिकमनाक्रम्य उच्चसौधस्य दुरारोहत्वादिति भावः । तस्मात्कीर्तिमिच्छता पौरुषमेवाश्रयणीयमिति श्लोकतात्पर्यम् । कीर्तितद्वतोरभेदोपचारात्समानकर्तृता निर्वाहः । अत्र प्रस्तुतायाः कीर्ते विषय महिम्ना अप्रस्तुतप्रासादारोहणस्त्रीव्यवहारप्रतीतेः समासोक्तिः ॥ ५२ ॥