________________
शिशुपालवधम् ___ उपकर्त्रेति ॥ उपकोंपकारकारिणा अरिणापि सहजेन । प्राकृतेन चेति शेषः । सन्धिः कार्यः । अरित्वापवादेन कृत्रिममित्रताया बलीयस्या यावज्जीवभाविन्यास्तत्रोत्पन्नत्वादिति भावः । एवमपकारिणा मित्रेणापि । सहजेन प्राकृतेन वेति शेषः । सन्धिर्न कार्यः। मित्रत्वापवादेन कृत्रिमशत्रुताया बलीयस्या यावज्जीवभाविन्यास्तत्रोत्पन्नत्वादिति भावः । ननु साक्षादरिणा सन्दध्यात् मित्रेण कथं विरुध्यादित्याशक्य क्रियया तयोर्वपरीत्याददोष इत्याह-हि यस्मादुपकारापकारावेव तयोमित्रामित्रयोललणं स्वरूपं लक्ष्यं द्रष्टव्यम्। उपकर्ते मित्रम् अपकतैव शत्रुरित्यर्थः। तस्मात्सहजमित्रत्वेऽपि चैद्यः क्रिया शत्रुत्वाद्यातव्य एवेति भावः ॥ ३७॥
अन्वय-उपका अरिणा ( अपि) सन्धिः ( कार्यः) अपकारिणा मित्रेण (अपि ) सन्धिः न ( कार्यः) हि उपकारापकारौ एतयोः लक्षणं लक्ष्यम् ॥ ३७॥
हिन्दी अनुवाद-( बलराम जी कहते हैं कि) उपकार करने वाले शत्रु के साथ भी सन्धि कर लेनी चाहिये, अपकार करनेवाले मित्र से नहीं। इन दोनों (मित्र तथा शत्रु) के लक्षण उपकार और अपकार को लक्षित करना चाहिए । ( अर्थात्-उपकार करने वाला ही मित्र है और अपकार करने वाला ही शत्रु) है।)॥३७॥
विशेष-बलराम जी के मत में शिशुपाल के साथ, जो फूआ का पुत्र होने के कारण सहज मित्र है, सन्धि करना उचित नहीं है।
प्रसङ्ग-प्रस्तुत श्लोक से चारश्लोकों में (श्लोक ३८-४१) शिशुपाल को कृत्रिम शत्रु प्रमाणित किया गया है । अथ चैद्यस्य कृत्रिमत्रुत्वं चतुभिराह
त्वया विप्रकृतश्चैद्यो रुक्मिणी हरता हरे !।
बद्धमूलस्य मूलं हि महद्वैरतरोः स्त्रियः ॥ ३८ ॥ त्वयेति ॥ हे हरे ! रुक्मिणी हरता। बन्धुभिस्तस्मै प्रदत्तां राक्षसधर्मेणोद्वहतेत्यर्थः। 'राक्षसो युद्धहरणात्' इति याज्ञवल्क्यः (आचाराध्याये ३।६१) 'गान्धर्वो राक्षसश्चव धो क्षत्रस्य तौ स्मृतौ' इति मनुः ( ३।२६ )। त्वया चैद्यो विप्रकृतः विप्रियं प्रापितः । तथा हि बद्धमूलस्य रूढमूलस्य वैरतरोः स्त्रियो महप्रधानं मूलम् । हि निश्चये । रूपकसंसृष्टोऽयं सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ ३८॥
अन्वयः-हे हरे ! रुक्मिणी हरता स्वया चैद्यः विप्रकृतः बदमूलस्य वैरतरोः स्त्रियः महत् मूलम् ॥ २ ॥