________________
द्वितीयः सर्गः
प्रसङ्ग - प्रस्तुत श्लोक में बलराम जी शत्रु और मित्र भेदों का निरूपण करते हैं ।
ननु क्षुद्रोऽयं चैद्यः किं नः करिष्यतीत्याशङ्कय तस्य बलवत्तां वक्तु मित्रामित्रबलावल विवेकं तावत्करोति
सखा गरीयान् शत्रुश्च कृत्रिमस्तौ हि कार्यतः । स्याताममित्रौ मित्रे च सहजप्राकृतावपि ।। ३६ ।।
सखेति ॥ क्रियया उपकारापकारान्यतररूपया निवृत्तः कृत्रिमः । वितः चित्र: ( ३३८८ ) वत्रेन्नित्यम् ( ४/४/२० ) सखा सुहृत् शत्रुश्च कृत्रिम गरीयान् । कुतः - हि यस्मात्तौ कृत्रिममित्रशत्रू कार्यंत उपकारापकाररूपकार्यं वशात् । निवृत्ताविति शेषः । उक्तकार्योपाधेर्यावज्जीवमनपायात् अनयोमित्रामित्रभावोऽप्यनपायीति गरीयस्त्वमिति भावः । सहजप्राकृतौ तु नैवमित्याह - स्यातामिति । सह जातः सहजः एकशरीरावयवत्वात् । तत्र सहजं मित्रं मातृष्वसेयपितृष्वसेयादि । सहजशत्रुस्तु पितृव्यतत्पुत्रादिः । प्रकृत्या सिद्धः प्राकृतः शत्रुः । पूर्वोक्तस हजकृत्रिमल - क्षणरहित इत्यर्थः । तत्र विषयानन्तरः प्राकृतः । तदनन्तरः प्राकृतं मित्रम् । अपि त्वर्थे । तौ सहजप्राकृतौ शत्रुमित्रे च स्यातां तावात्मकार्यवशादनियमेनोभयरूपतामापद्येते न कृत्रिमशत्रु मित्रे । कृत्रिमः शत्रुः शत्रुरेव मित्रं च मित्रमेवेति कृत्रिमादेव मित्रामित्रो गरीयांसी । न तु सहजी नापि प्राकृतावित्यर्थः । अनेन कृत्रिमत्वं सर्वापवादीति सिद्धम् ॥ ३६ ॥
अन्वयः - कृत्रिमः सखा शत्रुः च गरीयान् । हि तौ कार्यतः जाती । सहज प्राकृतौ अमित्रौ मित्रे च स्याताम् || ३६ ||
हिन्दी में अनुवाद - कृत्रिम मित्र और कृत्रिम शत्रु प्रधान होते हैं। क्योंकि वे (दोनों) कार्यवश होते हैं । सहज और प्राकृत मित्र भी कार्यवश मित्र तथा शत्रु होते हैं ( इनमें सहज मित्र - मौसी और फूल के लड़के, भाई और उनके लड़के, प्राकृत मित्र और प्राकृत शत्रु- ये हैं। इनकी व्युत्पत्ति इस प्रकार है - 'प्रकृत्या सिद्धः प्राकृतः ।'
सहज शत्रु- चचेरे
प्रकृति से ही होते
कृत्रिम शत्रु सदा शत्रु ही रहता है और कृत्रिम मित्र सदा मित्र ही रहता है, अतः ये ही दोनों प्रधान ( श्रेष्ठ ) है ॥ ३६ ॥
प्रसङ्ग - प्रस्तुत श्लोक में चलरामजी, सन्धि किसके साथ करनी चाहिये ? बतलाते हैं ।
एवं चेदस्माकं पैतृष्वसेयः शिशुपालः सहजमित्रत्वात्सम्बन्धातव्यो न तु यातव्य इत्यत आह
उपकरणा सन्धिर्न मित्रेणापकारिणा ।
उपकारापकारौ हि लक्ष्यं लक्षणमेतयोः ॥ ३७ ॥