________________
शिशुपालवधम् विपक्षमिति ॥ विपक्षं शत्रुमखिलीकृत्य खिलमुत्सन्नमकृत्वा । अनुन्मूल्येत्यर्थः । प्रतिष्ठा दुर्लभा खलु । तथा हि-उदकं कर्तृ धूनिम् । स्वपरिभाविनीमिति भावः । पतामनीत्वा । नाधःकृत्येत्यर्थः। नावतिष्ठते । किन्तु नीत्वंव तिष्ठतीत्यर्थः । 'समवप्रविभ्यः स्थः' (१॥३॥२२ ) इत्यात्मनेपदम् । वाक्यभेदेन प्रतिबिम्बनापेक्षो दृष्टान्तालकारः ॥ ३४ ॥ ___अन्वयः-विपक्षं अखिलीकृत्य प्रतिष्ठा दुर्लभा खलु । उदकं धूलिं पङ्कता अनीत्वा न भवतिष्ठते ।। ३४ ॥
हिन्दी अनुवाद-शत्रु का विना समूल नाश किये प्रतिष्ठा प्राप्त करना कठिन है। जल धूलि को जब तक कीचड़ बनाकर नीचे नहीं दवा देता, तब तक वह अपने (शुद्ध) स्वरूप को प्राप्त नहीं करता ।। ३४ ।।
प्रसङ्ग-प्रस्तुत श्लोक में बलराम जो कहते हैं कि एक शव का भी रहना कष्ट दायक होता है। नन्वयं शिशुपाल एकाकी नः किं करिष्यतीत्याशझ्याह
ध्रियते यावदेकोऽपि रिपुस्तायत्कुतः सुखम् ।
पुरः क्लिश्नाति सोमं हि सँहिकेयोऽसुरदुहाम् ॥ ३५ ॥ धियत इति ॥ एकोऽपि रिपुर्यावद् ध्रियतेऽवतिष्ठते । 'धूङ अवस्थाने' इति धातोस्तौदा दिकाकर्तरि लट् । 'रिशयग्लिङ्घ' (५४।२८) इति रिङादेशः । तावत्तदवधि सुखं कुतः । 'यावत्तावच्च साकल्येऽवधौ' इत्यमरः । तथा हि सिंहिकाया अपत्यं पुमान्सँहिकेयो राहुः । 'तमस्तु राहुः स्वर्भानुः सैहिकेयो विधुन्तुदः' इत्यमरः। स्त्रीभ्यो ढक् ( ४।१।१२० ) असुरगृहां देवानां पुरोऽने सोमं क्लिश्नाति धावते । प्राचुर्यात्सोमग्रहणम् । सूर्य चेति भावः। तस्मादेकोऽपि शत्रुरुच्छेत्तव्य इति भावः । 'अग्रेः शेषमृणाच्छेषं शत्रोः शेषं न शेषयेत्' इति तात्पर्यम् । विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः ॥ ३५ ॥
अन्वयः-एकः अपि रिपुः यावत् ध्रियते तावत् सुखं कुतः ? हि सैहिकेयः असुरगुहां पुरः सोमं क्लिश्नाति ॥ ३५ ॥
हिन्दी अनुवाद-जब तक एक भी शत्रु ( जीवित ) रहता है, तबतक सुख कहाँ ? क्योंकि राहु देवों के सामने चन्द्रमा को प्रसता ही है ॥ ३५॥ (एक शत्रु के होने पर भी उसका नाश कर देना चाहिये । कहा गया है
____ 'भग्नेः शेषमृणाच्छेषं शत्रोः शेषं न शेषयेत् । अतः शिशुपाल का नाश करना ही श्रेयस्कर है।)