________________
द्वितीयः सर्गः अन्वय-यः स्घल्पया अपि सम्पदा सुस्थितं मन्यः भवति कृतकृत्यः विधि: तस्य तां, न वधयति इति मन्ये ॥ ३२॥
हिन्दी अनुवाद-जो (राजा) अल्प सम्पत्ति से भी अपने को सुस्थिर मानता है तो कृतकृत्य देय भी उसकी उस सम्पत्ति को नहीं बढ़ाता, ऐसा मैं मानता
(जो नाम मात्र की सम्पत्ति प्राप्तकर सन्तुष्ट हो जाता है, उसका भाग्य भी उसकी इच्छानुसार ही स्वयं को कृतार्थ समझलेता है और पुनः उसकी सम्पत्ति में वृद्धि नहीं करता ॥)
प्रसङ्ग-मानियों के स्वभाव के विषय में बलराम जी कहते हैं। किञ्च पराक्रमलब्ध एवोदयो नान्यलब्ध इत्याह
समूलघातमघ्नन्तः परान्नोद्यन्ति मानिनः ।
प्रध्वंसितान्धतमसस्तत्रोदाहरणं रविः ॥ ३३ ॥ समलेति ॥ मानिनोऽभिमानिनः परान् शत्रून समूलं हत्वा समूलपातम् अनन्तः। अनुन्मूलयन्त इत्यर्थः 'समूलाकृतजीवेषु हन्कृग्रह। ( ३।४।३६ ) इति णमुल्प्रत्ययः । 'कषादिषु यथाविध्यनुप्रयोगः' ( ३४१४६ ) इति हन्तेरनुप्रयोगः । नोद्यन्ति । किन्तु हत्ववोद्यन्तीत्यर्थः। तत्र हत्वैवोदये, अन्धयतीत्यन्धं गाढं तमोऽन्धतमसम् । 'ध्वान्ते गाढेऽन्धतमसम्' इत्यमरः । 'अवसमन्धेभ्यस्तमसः' (४१५७९) इत्यच्प्रत्ययः। प्रध्वंसितमन्धतमसं येन सः । उदयात्प्रागिति भावः । रविरुदाहरणं दृष्टान्तः। अत्रापि 'दृष्टान्तोऽत्र महार्णवः ( २।३१) इतिवदुपमालङ्कारो न तु दृष्टान्त इति द्रष्टव्यम् ॥ ३३ ॥ ___ अन्वयः-मानिनः परान् समूलघातं अनन्तः न उद्यन्ति । तत्र प्रध्वंसितान्धतमसः रविः उदाहरणम् ॥ ३३ ॥
हिन्दी अनुवाद- आस्माभिमानी लोग शत्रुओं का समूल विनाश किये विना अभ्युदय को प्राप्त नहीं करते। इसमें उदाहरण सूर्य है, जो उदित होने के पूर्व रात्रि के प्रगाढ़ अन्धकार को नष्ट कर देता है ।। ३३॥
प्रसङ्ग-प्रस्तुत श्लोक में बलराम जी कहते हैं कि शत्रु का नाश किये विना प्रतिष्ठा प्राप्त करना कठिन है। किञ्च अनुच्छिन्नशत्रोः प्रतिष्ठव दुर्घटेत्याह
विपक्षमखिलीकृत्य प्रतिष्ठा स्खलु दुर्लभा । अनीत्वा पङ्कतां धूलिमुदकं नावतिष्ठते ॥ ३४॥