________________
८८
शिशुपालवधम् मिति भावः । महार्णवो दृष्टान्तः। दृष्टः अन्तो निश्चयो यस्मिन् दृष्टान्तो निद. र्शनम् । उपमानमिति यावत् । राज्ञा वृद्धौ अलंबुद्धिर्न कार्या ।
'असन्तुष्टा द्विजा नष्टाः सन्तुष्टाश्च महीभुजः ।
सल्लज्जा गणिका नष्टा निर्लज्जा च कुलाङ्गना' ॥ इति न्यायादिति भावः । नायं दृष्टान्तालङ्कारः। बिम्बप्रतिबिम्बभावेनीपम्यस्य गम्यत्वे तस्योत्थानात् । किन्तु दृष्टान्तशब्देन तस्याभिधानादुपमालङ्कारः । अत एव दृष्टान्तोदाहरणनिदर्शनरूपाः शब्दा न प्रयोक्तव्याः पौनरुक्त्यापत्तेरित्येकावल्यलङ्कारः ॥ ३१ ॥ ___ अन्वयः-महीयसां परेणापि महिम्ना तृप्तियोगः न । अत्र पूर्णः चन्द्रोदयाकाक्षी महार्णवः दृष्टान्तः ॥३१॥
हिन्दी अनुवाद-राजाओं को अभ्युदय में कभी सन्तोष नहीं करना चाहिये । इसमें दृष्टान्त रत्नाकर है। वह रत्नों से सम्पन्न होने पर भी अपनी वृद्धि के लिये चन्द्रोदय को चाहता ही है। (अतः वे प्रभूत धन सम्पन्न होने पर भी अपने अभ्युदय के लिये सदा प्रयत्नशील रहें । ) ॥ ३१ ॥
विशेष-राजाओं को अपनी समृद्धि में सन्तुष्ट होकर नहीं बैठना चाहिये। क्योंकि कहा गया है
"असन्तुष्टा द्विजा नष्टाः सन्तुष्टाश्च महीभुजः ।
सलज्जा गणिका नष्टा निर्लज्जा च कुलाङ्गना॥ प्रसन-बलराम जी कहते हैं कि सन्तोष करना हानिकर होता है। तथापि सन्तोष दोषमाह
सम्पदा सुस्थितंमन्यो' भवति स्वल्पयाऽपि यः।
कृतकृत्यो विधिर्मन्ये न वर्धयति तस्य ताम् ।। ३२ ॥ सम्पदेति ॥ यः स्वल्पयाऽपि सम्पदा सुस्थिरमात्मानं मन्यत इति सुस्थिर मन्यः स्वस्थमानी भवति । 'आत्ममाने खश्च' (३।२।८३ ) इति खप्रत्यये मुमागमः । तस्याल्पसन्तुष्टस्य तां स्वल्पसम्पदं कृतकृत्यस्तावतव कृतार्थो विधिदेवमपि न वर्धयति अहमिति मन्ये । पौरुषहीनावमपि जुगुप्सते, तत्प्रवृत्तेः परमद्धिप्राप्तिरिति भावः ॥ ३२ ॥
१. °सुस्थिरंमन्यो।